________________
पार्श्वनाथचरित्रे
शक्यन्ते न विना वैद्यैरुच्छेत्तुं रोगिणां रुजः ॥१६२॥ ध्यात्वेति पृथिवीनाथपुत्रः साधुसमागमम् । बप्पीह इव पाथोदागमं ध्यायंश्च तस्थिवान् ॥१६॥ अन्येधुर्बहिरुद्याने लोकचन्द्राभिधो गुरुः । आनोत इव तत्पुण्यै रागाद् धर्म इवाङ्गवान् ॥१६४॥ सूरेस्तस्यागमोदन्ताजनता तन्निवासिनी निर्वृति परमां प्राप सतीध पतिदर्शनात् ॥१६५॥ निशम्य गुरुमायातं कुमारो मुदमाप च । चिन्तितार्थे हि निष्पन्ने हर्षोप्युत्कर्षतां व्रजेत् ॥१६॥ कुबेरस्त्रपया तस्य राजसूश्च स्वभक्तितः । मुनि नन्तुमितौ तौ द्वौ तमःसत्त्वगुणाविव ॥१६७॥ सदःकुमुदिनीचन्द्रं लोकचन्द्रं महामुनिम् । भूपभूर्भावतोऽनंसीत् कुबेरस्तस्य लजया ॥१६८॥ तेषु सत्सु सभासत्सु निषण्णेषु यथोचितम् । (प्रारेभे देशनां साधुः प्रशमामृतनिझराम् ॥१६९॥ इह स्वभावस्वच्छोऽपि चेतनश्चेतनात्मकः । कारकः पुण्यपापानां भोक्ता स्वकृतकर्मणाम् ॥१७०॥ कर्ममलावृतो नित्यमेति दुःखं भवे भ्रमन् । तनिवृत्तिचकीर्षा चेद् यतध्वं पुण्यकर्मणि ?) ॥१७॥ श्रुत्वेत्यात्ममतध्वंसी कुबेरोऽवक् तपस्विनम् । वियत्पुष्पमिवात्मेव तावन्नास्त्येव भिक्षुक ! ॥१७२॥ भूम्यऽप्तेजोमहव्योम्नः प्रादुर्भवति चेतना। नष्टेवेतेषु साप्यभ्रपटलीव विलीयते ।।१७३।। यदात्मा प्रेत्य गन्तेति तद्वचोऽप्यसमञ्जसम् । तदभावाद् विना मातापितृभ्यां न सुतोद्भवः ॥१७४॥ पृथग् नास्ति शरीरेऽपि शरीरीह शरीरिणाम् । प्रयाति परलोके कः परित्यज्य वपुस्तदा ? ॥१७॥ वन्ध्यासूनुरिव प्रेत्यगतिस्तस्मादशङ्कितम् । निषेव्या विषया नित्यं भोगिभिर्भोगभासुरैः ॥१७६॥ यदुक्तं चेतनात्मात्मा सापि नात्मगुणो भवेत् । यतः सा भूतसम्भूता तद्विनाशे विनश्यति ॥१७७।। यदुक्तमात्मा कर्तेति धर्माऽधर्मविधेर्न तत् । तत्फलाभावतो नेह तौ स्तः खरविषाणवत् ॥१७८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com