________________
द्वितीयः सर्गः। स्वयंवरां वराङ्गी तां पित्रादिष्टः शुभेक्षणे । उपयेमे वज्रनाभः पद्मनाभ इव श्रियम् ॥१४६॥ विजया तं पतिं प्राप्य मेने स्वात्मानमुत्तमम् । तादृक्पुरत्नसंयोगे प्रमोदः प्रगुणीभवेत् ॥१४७॥ कुबेराख्योऽन्यदा वज्रनाभमातुलनन्दनः ।, न्यत्कृतो जनकेनागाद् वज्रनाभस्य संनिधौ ॥१४॥ परलोकात्ममोक्षादि नास्तित्वेन विदन् हृदि । नास्तिकोऽसौ कुबेरस्तं कुमारमन्ववर्तत ॥१४९॥ धर्म शर्ममयं कुर्वन्नित्यूचे तेन भूपभूः । किं वृथा कुरुषे धर्म पाथसामिव मन्थनम् ? ॥१५०॥ शिरीषसुकुमारं स्वं शरीरं भोगभाजनम् । मा ज्वालय महाकष्टैः श्रीखण्डमिव पावकैः ॥१५॥ मृगीगङ्गकौशेयतलिकाभ्यङ्गमजनैः। फलैरेभिः सफलय स्पर्शनेन्द्रियमात्मनः ॥१५२॥ स्वादुभिर्दधिदुग्धानपानप्रमुखभोजनैः। फलं भुक्ष्व रसज्ञायाः फलैरेभिः सुदुर्लभैः ॥१५३॥ कुन्दचम्पककङ्केल्लिमालतीसुमनःस्त्रजाम् । सफलीकुरु सौरभ्यैरिन्द्रियं घ्राणसंज्ञकम् ॥१५४॥ नेत्रोरुमुखवक्षोजाधराघ्रिकरविभ्रमान् । एणीदृशां निभाल्यैतान् स्वनेत्रे सफलीकुरु ॥१५५॥ वेणुवीणाकलालापमृदङ्गमधुरैः स्वरैः।। श्रुत्योः फलं गृहाणेदं फलैरेभिर्महामते ! ॥१५६॥ स्वैरं प्राप्तान् सखे ! भुव विषयान् विषयेप्सितान् । पीयूषन्ति हि तारुण्ये विषया विषयैषिणाम् ॥१५७॥ शमैहिकं त्यजन् प्रेत्यसुखच्छुः खेदमेष्यसि । स्तोकमम्भो विहायणतृष्णया धाविताङ्गिवत् ॥१५८॥ कुमार ! सुकुमाराङ्ग ! मुधा ते मानुषं जनुः । यदेतान् दुर्लभान् भोगान् न भुक्षेऽन्नमिव ज्वरी ॥१५९॥ श्रुत्वेति नास्तिकस्यास्यात्यद्भुतं वचनं चिरम् । कृतमौनो महात्माऽसौ चिन्तयामास चेतसि ॥१६०॥ नास्त्यसौ समयो नूनममुना सह जल्पने । मर्मज्ञानं विना न स्याश्चिकित्सा कल्पकारिणी ॥१६१॥ मर्मवेत्तुः कुतोऽप्येनं बोधयिष्याम्यहं गुरोः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com