________________
पार्श्वनाथचरित्रे
ततश्च्युत्वा स गीर्वाण उदियाय मरालवत् । राशी लक्ष्मीवतीकुक्षिसरसीसरसीरुहे ॥१३०॥ ईषनिद्राविमुद्राक्षी साऽद्राक्षीत् स्वप्नमुत्तमम् | भुवोऽन्तर्मणिवद् गर्भस्तत्कुक्षौ ववृधे च सः ॥१३१॥ वज्रवीर्यकुलाकाशप्रकाशविधिधूर्वहम् ।
४०
रविविम्बमिव प्राची साऽसूत सुतमुत्तमम् ॥ १३२॥ कृतोत्सवो धराधीशस्तेनास्तस्य शुभेऽहनि । वज्रनाभ इति ख्यातामाख्यामाख्यत् सुखावहाम् ॥१३३॥ शर्शाव कलयामास स क्रमात् सकलाः कलाः। निदर्शनमिवाजानाद् विद्वत्सु जनकोऽप्यमुम् ॥१३४॥ तमालिलिङ्गे तारुण्यावस्था वल्लीव शाखिनम् । सुवर्ण मणिवत् तस्मिंस्तारुण्यमपि दीप्तवत् ॥१३५॥ तारुण्यं तस्य निर्वर्ण्य वर्णिनीवर्गलोचनैः । निपेते निर्भरं तस्मिन् सरोजे भ्रमरैरिव ॥१३६॥ यौवनालङ्कृतः क्ष्मापनन्दनो जननन्दनः । आक्रोडादौ स सव्रीडश्चिक्रीड द्वीपपोतवत् ||३३७|| इतोऽजनि जनपदो बङ्गाह्नश्वङ्गिमाश्रयः । यजना विजयानन्दाः स्वर्जना इव जज्ञिरे ॥ १३८ ॥ तत्राभूच्चन्द्रवत् कान्तश्चन्द्रकान्तोऽवनीपतिः । यत्कीर्त्तिश्चन्द्रिकेवाभूत् कुमुदौत्सुक्यवत्सला ॥ १३९ ॥ जयन्तीं जयन्ती स्वीयवपुर्लक्ष्म्या अजायत । विजयाह्ना सुता तस्य कमलेव पयोनिधेः ॥१४०॥ यौवनालङ्कृतांगी च यूनां चेतः क्षणादपि । जहार नृपपुत्री सा, योषितां नेदमद्भुतम् ॥ १४१ ॥ वोक्ष्यैनां यौवनारूढां भुवो वोढा व्यचिन्तयत् । सुतैषाऽजनि निःशेषयोषितां मुखभूषणम् ॥१४२॥ तदेनां वितरिष्यामि कस्मै राजाङ्गजन्मने । संयोगः श्लाघ्यते रत्नस्वर्णयोरेव धीधनैः ॥१४३॥ पुत्रीचिन्ताब्धिनिर्मग्नो वज्रवीर्यनृपात्मजम् । सोऽश्रौषीत् सुभगोत्तंसं रूपश्रीजितमन्मथम् ॥ १४४॥ तस्मै दातुं निजां पुत्रीं स्त्रीरत्नमिव चक्रिणे । आययौ चन्द्रकान्तः स नगरीं तां शुभंकराम् ॥ १४५ ॥
१ लवुवयसः । २ इन्द्रपुत्रीम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com