SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः बन्धकीनां प्रयान्तीनां त्रुटित्वा हारमौक्तिकैः । पतितैर्भाति यद्भूमिस्ताम्रपर्ण्या इवानुजैः ॥ १६ ॥ वीक्ष्य यद्विपणिश्रेणि मणिमाणिक्यमण्डिताम् । संलक्ष्यते दृषच्छेषा रोहणाद्रेरधित्यका ॥ १७ ॥ प्रतापविद्युदा दग्धविपक्षवनगह्वरः । तत्र विद्युद्गतिर्नाम भूपी भूचरेश्वरः ॥ १८ ॥ यत्प्रतापस्य सूरस्य सामान्यमभिदध्महे | यदुद्गते रिपुस्त्रीदृक्कैरवैर्मुकुलायितम् || १९|| यत्प्रतापात पस्योष्णदीप्तिदीप्ते महान्तरम् । निश्यानन्दस्तया तप्ते तत्तप्तेऽहर्निशं न हि ॥ २० ॥ राज्ञस्तस्याभवद्राज्ञी तिलकेत्यभिधानतः । यया लावण्यलोलाभिः स्त्रणेषु तिलकायितम् ॥ २१ ॥ डग्मुखाभ्यां जितौ जाने यस्या मृगमृगाङ्कको । एकत्रीभूय यद् मन्त्रं कुर्वते तजिगीषया ॥ २२ ॥ यन्मुखे विहिते चन्द्रं वृथा जानन् पयोजभूः । मषीपुत्र निचिक्षेप लक्ष्यलक्षणमन्तरे || २३ ॥ सोऽथ विद्युद्गांतर्भूपः सा राशी तिलकावती । मिथस्तयोरभूत् प्रेम गौरीगौरीशयांरिव ॥ २४ ॥ नम्रानेक महीपालमौलिमालार्चितक्रमः । बुभुजे भूपतिर्भोगांस्तया सार्धमहर्निशम् । २५ ॥ विलासै ललितैलस्यैहस्यैश्च भूरिभिः सदा । सा मनो रञ्जयामास राज्यश्रीरिव भूभुजः ॥ २६ ॥ एवं सुखमहाशाखिशाखाशाखामृगोपमौ । कालं लवमिवानल्पमित्यवाहयतामिमौ ॥ २७ ॥ इतः करटिकोटीरजीवः सोऽष्टमकल्पगः । स्वीयायुः पूरयामास भानुमानिव वासरम् ॥ २८ ॥ पक्कपर्णमिव च्युत्वा ततः सोऽवातरत् सुरः । कुक्षौ श्रीतिलकावत्या मुक्तावच्छु के संपुटे ॥ २९ ॥ अद्राक्षीत् पद्मपत्राक्षी स्वप्नं साऽस्वप्नेसूचितम् । गर्भानुभावतः स्वप्ना अपि स्युः शुभशंसिनः । ३० ॥ मेरुभूरिव मन्दारप्ररोहं प्रतिबिभ्रती । तं गर्भे साऽभवद्भूमीभर्तुः प्रेम्णे महीयसे ॥ ३१ ॥ १ अस्वप्नः = देवः । Shree Sudharmaswami Gyanbhandar-Umara, Surat ३३ www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy