SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ पार्श्वनाथचरित्रे ययावीशान कल्पेऽथ दुरापे सा करेणुका ॥ ४४५ ॥ स्मितविस्मयविस्मेरदेवहग्मृगवागुरा । तारुण्याऽगण्यलावण्यपुण्यपानीयकूपिका ।। ४४६ ॥ तदोपपादशय्यायाः प्रादुरासीत् सुरी च सा । पयोनम्रपयोवाह संपुटादिव हादिनी ॥ ४४७ ॥ बिभ्रती वदनं वृत्तं पुष्पचापमहीपतेः । प्रवेशायेव संपूर्ण कुम्भं काञ्चननिम्मितम् ॥ ४४८ ॥ पीवरोन्नतवक्षोजभारभुग्नवपुलता । चक्राकारनितम्बेनाऽभिभूततटिनीतटा ॥ ४४९ ॥ मध्यदेशं च बिभ्राणा कुलिशोदरसोदरम् । निर्गच्छद्दलकङ्केल्लिपल्लवाभकरक्रमा ।। ४५० ।। मृगारातिरवत्रस्तमृगशावविलोचना । ३० भ्रुवोर्विभ्रममात्रेण भ्रामयन्ती सुपर्वणः ।। ४५१ ॥ सा सुरी क्षोभयामास कटाक्षैर्निशितैः सुरान् । सेनेवानङ्गराजस्य वाणैस्त्रस्तजगत्त्रयैः ॥४५२ || ( पञ्चभिः कुलकम् ) तत्र कल्पे न कोऽप्यासीद् देवो देवशिरोमणिः । तां निभाय मनोजन्मबाणैर्भिन्नं न यन्मनः ॥ ४५३ ॥ ज्ञानविज्ञातहस्तीन्द्रपूर्वस्नेहनिबन्धना । न सा व्यधाद् मनः स्वीयं कस्मिन्नप्यमरे वरे ॥ ४५५ ॥ गजजीवं विना वाऽपि सुरे नाप सुरी रतिम् । ग्रहेऽन्यस्मिन् विना भानुं किमब्जिन्या भवेद्वति: ? ।। ४५५ ।। दूरस्थमपि दन्तीन्द्रजीवदेवं प्रति द्रुतम् । अयस्कान्तमिवायस्कं धावति स्मामरीमनः ॥ ४५६ ॥ हस्तिजीवसुरः सोऽपि हस्तिन्यामतिरागवान् । न हि कापि रतिं प्राप करीब मरुनीवृति ॥ ४५७ ॥ अधोज्ञानेन विज्ञाय सुरीं तामतिरागिणीम् । सहस्रारेऽमुना निन्ये परिणीतेव साऽमरी ॥ ४५८ ॥ रूपातिशयशालित्वात् पूर्वप्रेमवशादपि । अमरीममरश्चक्रे तामन्तः पुरमण्डनम् ॥ ४५९ ।। सुपर्वाऽसौ पपौ दृष्टिपुटैस्तद्रूपसंपदम् । शरदभ्रविनिर्मुक्तां चकोर इव चन्द्रिकाम् ||४६०॥ मेनेऽनिमिषमुख्योऽसौ धन्यां स्वामनिमेषताम् । १ विद्युत् । २ कङ्केल्लिः अशोकवृक्षः । Shree Sudharmaswami Gyanbhandar-Umara, Surat = www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy