SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः उपयोगवशात् सद्यो विस्फूर्तिरवधेस्ततः। अस्मार्षीदात्मनो जन्मातीतं स्वप्नमिव द्रुतम् ॥ ४२६।। सोऽहं हस्ती भव पूर्वे निघृणानां शिरोमणिः । अजानमरविन्दर्षेर्महर्षर्धर्ममाहतम् ॥ ४३०॥ प्रतिपद्य तदादेशविरतिं पशुरप्यऽहम् । व्यधामनशनं स्वर्गश्रियामिव करग्रहम् ।। ४३१ ॥ तैः पुण्यैरासदं कल्पमनल्पसुखतल्पनम् । यस्मादनशनं नाकिभोगानां प्रतिभूरिव ॥ ४३२ ॥ स्मृत्वैवं च समुत्थाय वयंसन्यस्तहस्तकः । स्नानासनमलंचके राजहंस इवाम्बुजम् ॥ ४३३॥ गान्धर्वैर्गीतसंगीतकलमङ्गलगायिभिः । चिरंजीव चिरंजीवत्यचिवद्भिश्च बन्दिभिः ॥ ४३४ ॥ आनन्दाद्वैतसंनद्धैरमरैरमराग्रणीः । अभिषिक्तः सुखैः सार्ध मेधैर्मेरुग्विाम्बुभिः ॥ ४३५ ॥ (युग्मम् ) उत्थाय वाचयामास ततः प्रशस्तपुस्तकम् । आत्मकृत्यं च जशेऽसौ गुरूक्तमिव तत्त्वधीः ॥ ४३६॥ गत्वा सिद्धालयेऽथामौ सुमनोभिमनोहरैः। प्रतिमाः पूजयामास शाश्वतीः पुण्यपुण्यधीः ॥ ४३७ ॥ इति प्रकृत्य कृत्यानि कृत्यानि कृतिनां वरः।। अभुङ्क्त विविधान् भागान् धर्मद्रसुमसंनिभान् ॥ ४३८ ॥ अथ कुर्कुटसोऽपि पर्यटन्नटवीतटे । अमारयद् बहून् जीवान् कालरात्रेरिवात्मजः ॥ ४३९ ।। भूरिभिर्वासरै रिपापभारण भारितः। मृत्वाऽधोगतिभाग जज्ञे सोऽश्मखण्डमिवाम्बुधौ ॥ ४४०॥ रौद्रध्यानपरः कृष्णलेश्यालिप्तमनःस्थितिः । क्षुत्तषाशीततपोत्थपीडानामेकमास्पदम् ॥ ४४१ ॥ पञ्चमक्षोणिगः सप्तदशवारिनिधिस्थितिः । पञ्चमावनियोग्याश्च वेदना अन्वभूदसौ ॥ ४४२॥ (युग्मम्) वरुणा हस्तिनी हस्तिवियोगादतिखेदभाक् । दुःखिताऽजनि तत्रैकस्थल उप्तेव पद्मिनी ॥ ४४३ ।। व्यधाद् विशेषतः साऽपि तपः पन्युर्वियोगतः। मरणे रमणानां हि रमणीनां तपः श्रिये ॥४४४॥ दुस्तपं च तपस्तप्त्वा कृत्वान्तेऽनशनं पुनः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy