________________
पार्श्वनाथचरित्रेतटाकेऽथ प्रविष्टः सन् पिपासुस्तत् पयः करी। निर्मग्नः कर्दमे दैवात् तत्र रूढ इवाजनि ॥३८२।। तपःक्षामतनुत्वेन ततो निर्गन्तुमक्षमः । तस्थौ तत्रैव निर्मग्नः कर्दमे दुर्दमे द्वीपः ॥३८३।। भ्रूभ्रमेणापि भूतानामभितो भयकारिणा । स दृष्टस्तेन दुष्टेनाऽटता कुर्कुटभोगिना ॥३८४॥ निध्यानात् तस्य धीरैकधुर्यस्यानेकैपेशितुः । अजागरीदहेवैरं क्षणं सुप्तमिव द्रुतम् ॥ ३८५॥ सपक्ष इव कीनोश उड्डीयोड्डीय मत्सरी। दन्दशूको दर्दशैनं कुम्भिनं कुम्भमर्मणि ॥३८६॥ सदर्पसर्पदंष्ट्राभ्यां निर्गता गरधोरणिः । व्यानशे तत्तनुं शैलनिर्झराम्भ इवावनिम् ॥३८७॥ प्रसपद्भिगरोदगारैत्विात्मानं निरायुषम् । विदधेऽनशनं हस्ती प्रशमामृतसारणिः ॥३८८॥ तत्क्षणोल्लासिसंवेगवेगवान् गजपुंगवः । अस्मार्षीदरविन्दर्षेः शिक्षा शिष्यो गुरोरिव ॥३८९॥ अर्हत्सिद्धगणाधीशोपाध्यायसमसाधुभिः । सर्वधर्ममयैः सर्वगुणैश्च समधिष्ठितम् ॥३९०॥ अशेषदुःखदावाग्निदाहाम्भोवाहसोदरम् । स सस्मार नमस्कारं सिन्धुरः शमबन्धुरः ॥३९१॥ (युग्मम् ) समष्टी रिपो मित्रे तृणे स्त्रैणे मणौ मृदि । आहारपरिहारी स ध्यावित्थ मतङ्गजः ॥३६२॥ रे जीव! मरणं जन्मानुगं जन्मवतां स्मृतम् । ततो न जन्मिभिर्भाव्यं मरणे करुणस्वरैः ॥३९॥ पन्नगोऽसौ तवाद्यात्मन् ! यातो धर्मे सहायताम् । यदेतद्विहिता पीडा सोढा दुष्कर्मभेदनी ॥३९४॥ मा कार्षीः पन्नगे मन्युमात्मन् ! मृत्युविधायिनि । मरणं ह्यावश्यकं नूनं यतः कीटेन्द्रयोरपि ॥३९५॥ सुखे दुःखे क्षये वृद्धौ स्तुतौ गालौ महे शुचि । अन्यो निमित्तमात्रं स्यात् कर्माण्येवात्र कारणम् ३९६।। एवं संवेगमारूढश्चतुर्धाहारमुक्तिवान् । चतुष्कषायनिर्मुकश्चतुःशरणमाश्रितः ॥३९७॥ १ दर्शनात् । २ हस्तिनः । ३ यमः । ४ क्रोध-मान-माया-लोभरूपा चतुष्कषोयी, तया रहित इत्यर्थः । ५ अर्हत्सिद्ध-साधु-धर्माणां शरणम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com