SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः फलमूलपलालौघपलाशैः पुष्कलैरपि। दुष्पूर्तिरुदरस्यास्य महान्धोरिव वारिभिः ॥३६६।। आत्मानं भावयन्नाभिर्भावानाभिरहनिशम् । भिक्षुशिक्षा स्मरन् हस्ती गमयामास वासरान् ॥३६७।। इतश्च कमठः क्लिष्टकर्मकर्मठमानसः। अनुजं मरुभूतिं स्वं मृतं दृष्टाऽतिहष्टवान् । ३६८।। कमठः शठकोठीरः तद् दुष्कर्म मुहुर्मुहुः। अन्वमोदत दुष्टात्मा स्वात्मानं धर्मिणं विदन ॥३६९॥ श्रुत्वा वार्तामिमां दुष्टां गुरुरप्याश्रमादिमम् । त्वरं निष्काशयामास मन्दिरादिव कुकुरम् ॥३७०।। दुष्टदुष्टेति दुवाक्यस्तापसास्तापसोटजात् । अमुञ्चन् दूरतः पाणिं धृत्वा पुच्छमिवोरगम् ॥३७१॥ स्थानभ्रष्टो भ्रमन् दुष्टो भोगीव कठिनाशयः। न लेभे स्थानमप्येष क्वापि कुष्टार्तिमानिव ॥३७२॥ असौ दुष्कर्मकर्तति गहमाणः पदे पदे । नीरसामपि न प्राप भिक्षां पितृजिघांसुवत् ॥३७३॥ आर्तध्याननिबद्धात्मा स मृत्वा बालमृत्युना। समवर्तीव हिंसात्मा कुर्कुटाहिरजायत ॥३७४॥ बाहोरिव महाचण्डो विक्षेपं पक्षयोः सृजन् । घर्षन्नश्मनि तुण्डाग्रं कुन्ताग्रमिव कौणपः ॥३७५॥ संहरन् बहुशः सत्त्वान् मरकस्येव सोदरः। सोऽनमत् कुञ्जपुञ्जाद्रिगुहाग दिगह्वरे ॥३७६॥ (युग्मम) भरुभूतिर्कीपस्याथ चरतश्चारुचर्चया। अन्यदाऽभूदु ग्रीष्मकालो दुष्काल इव पाथसाम् ॥३७७॥ नीराशयेषु बाहुल्याबाहुल्ये पपाथसोः। अभूतां तत्र धर्मौ पोत्रिणां प्रेमपूरके ॥३७८॥ तृषार्ता वारणो वारिपानार्थ बंभ्रमंस्तदा । नापश्यत् प्रासुकं क्वापि पयो ध्वान्तमिवाहनि ॥३७९॥ नानाद्रुमच्छदाच्छन्नं तीवरुक् तप्तपुष्करम् । भ्रमन्नितस्ततः कुम्भी ददर्शकं सरोवरम् ॥३८०॥ ज्ञात्वा तत् प्रासुकं तायमजानन् कर्दमाम्भसोः। स्तौक्याऽस्तोक्ये विवेशाऽसौ कासारे यत्नतः करी ॥३८१॥ १ पोत्रिणः-सूकराः । २ निर्जीवं निर्दोषमित्यर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy