________________
पार्श्वनाथचरित्रे-- पल्वले निशि संतिष्ठन्नुत्कीर्ण इव निश्चलः ॥ ३५० ॥ प्लवङ्गान्दोल्यमानद्रुवल्लीसम्भववायुभिः ।। निष्कम्पो निशि कुम्भीन्द्रो हेमन्तमत्यवाहयत् ॥३५१॥ (युग्मम्) गिरीन्द्रकन्दरागारे समासीनः समाधिमान् । तजन्मेवासुमद्रक्षादक्षोऽहान्यतिवाहयन् ॥ ३५२ ॥ गतागतमकुर्वाणो बिभ्राणो दुस्तपं तपः। अनैषीदेष वर्षतुमङ्गसकोऽप्यगह्वरे ॥ ३५३ ॥ (युग्मम् ) ग्रीष्म-हेमन्त-वर्षासु दौष्कर्यमिति संकिरन् । शरीरं कृशयामास कर्मभिः सह सिन्धुरः ॥ ३५४॥ कायोत्सर्ग सृजन् क्वाऽपि स्वैकतां सूचयन्निव ।। शुण्डां संयमयंश्चण्डां क्वापि कैरविणीमिव । ३५५ ॥ क्वापि मौनं वितन्वंश्च भृतकुम्भ इवाम्भसा । तिष्ठन् क्वापि तरोर्मूले जातश्रम इवाध्वगः ॥३५६॥ करिणीकेलिविमुखः सम्मुखः पुण्यकर्मणि । दभ्यो स सिन्धुरः शर्ममर्मधर्मधुरां दधत् ॥३५॥
(त्रिभिर्विशेषकम्) धन्यास्ते यैस्तपस्यद्भिस्तपस्याऽऽदायि दुष्करा। सा नृजन्म विना न स्याद् विवेकैकनिबन्धनम् ॥३५८॥ विवेकविकलस्यात्र तपस्या नृभवोचिता। दुर्लभा मम दुर्बुद्धरमव्यस्येव निवृतिः ॥३५९॥ धन्यास्ते यैः सुपात्रेभ्यः प्रदीयन्ते स्वसम्पदः । नृणामेवोचितं दानं मत्तानामिव दन्तिनाम् ॥३६॥ आपन्नोऽहं च तिर्यक्त्वं निजदुष्कर्मदोषतः। नालं दातुं किमप्यस्मिन् निर्वारिरिव वारिदः ॥३६१॥ धिर धिगू मामन्तसमयेऽप्यार्तध्यानविधायिनम् । येन रत्नोपमं मर्त्य जन्म हारितवांस्तदा ॥३६२॥ तिर्यक्त्वं लब्धवानार्तध्यानेन क्लिष्टचेष्टितः । तिर्यक्त्वेऽप्यभवं हस्ती महादेहो महीध्रवत् ॥३६६॥ गात्रगौरवतः किश्चाक्षमोऽहं प्राणिरक्षणे । प्राणिप्राणपरिध्वंसी दाववहिरिवाभवम् ॥३६॥ गच्छंस्तिष्टस्तथोत्तिष्ठन् यमदूत इवागतः । अभवं भयभीरूणां प्राणिनां भीतिहेतवे ॥३६५॥ ? बोधयन् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com