________________
२०
पार्श्वनाथ चरित्रे
नूतनोद्भूतको पान्धे इभेऽभ्वर्णमुपेयुषि । एवं विचेष्टिरे सार्थलोकाः कोलाहलाकुलाः ॥ २८९ ॥
`
(त्रिभिर्विशेषकम् )
रद्रोष्टं लुठल्लोष्ठमटच्छकट संकटम् । व्रजदृषभमाक्रन्दत्खराश्वतर सैरभम् ॥ २९० ॥ त्रसदेणं रुदत्स्त्रैणं स्फुटत्पटकुटीपटम् । इत्यभूद् भीषणं तस्मिन्नन्यसैन्य इवागते || २६१ ।। ( युग्म ) जीवग्राहं प्रनष्टेषु लोकेषु निखिलेषु च । एक एव मुनिस्तस्थौ मेरुचूलेव निश्चलः ॥ २६२ ॥ ज्ञात्वाऽथावधिज्ञानात् तस्य हस्तिनोऽतियोग्यताम् । कायोत्सर्गेण तस्थौ सोऽरविन्दो मुनिपुङ्गवः ।। २६३ ॥ नाकाग्रन्यस्तदृग्द्वन्द्वं सुस्थितं तं मुनिं प्रति । गर्जितर्जितपर्जन्यो दधावे सिन्धुरोद्धुरः || २६४ ॥ ध्यानसन्धाननद्धस्य प्रभावात् तस्य सन्मुनेः । पयः सेकादिवाङ्गारः शान्तः सोऽजनि कुञ्जरः ।। २९५ ।। शान्तात्माऽसौ द्विपाधीशो भिक्षं वीक्ष्य क्षमारतम् । संवेगं परमं भेजे पूर्वाभ्यस्तमिव त्वरम् ॥ २९६ ।। शनैः शनैस्तपस्वीवागत्यैष द्विरदेश्वरः । तस्थिवांस्तन्मुनेः पार्श्वे सद्यः सद्यस्क शिष्यवत् ॥ २९७|| मुमुक्षुरपि शान्तात्मा परोपकृतिकर्मठः । कुञ्जरस्योपकाराय कायोत्सर्गमपारयत् ॥ २९८ ॥ व्यज्ञासीज्ज्ञानविज्ञानात् तत्पूर्वीचरणं मुनिः । प्रत्यक्षं ज्ञानिनां नूनं स्वरूपं हि वपुष्मताम् ॥ २९९ ॥ वचोभिर्मधुरस्तस्य तिरोऽपि द्विपेशितुः । प्रतिबोधमदात् साधुः स हि क्रीटेन्द्रयोः सह ॥ ३००॥ अनुभूतं त्वया भद्र ! मरुभूतिभवे पुरा ।
तदत्र स्मर निःशेषं निशास्वप्नमिवाहनि ॥३०१ ॥
विश्वभूतिं स्ववप्तारं मातरं स्वमनुद्धराम् । किन स्मरसि दन्तीन्द्रारविन्दं मां च भूभुजम् ? ॥ ३०२ ॥ हरिश्चन्द्रमुनेः पार्श्वे स्वीकृतं धर्ममाईतम् । व्यस्मार्षीः किं त्वमधुना दुष्टस्वप्नमिवोषसि ? ॥३०३ ॥ दुष्कर्मकर्मठेनाशु कमठेन कृतः पुरा । अभ्यागतो भवान् मृत्योस्तदपि स्मर कुञ्जर | ॥३०४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com