SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः भव्यं बुभुजिरे भक्ष्यं केऽपि जन्यजेना इव । एवं ववृतिरे सर्वे सार्थिकाः स्वार्थनिर्भराः ॥२७४॥ ( चतुर्भिः कलापकम् ) कलितः कलभैस्तुङ्गैः प्रतिच्छन्दैरिवात्मनः । परीतः करिणीवृन्दैः शैलिकाभिरिवाचलः ॥ २७५॥ भृतैदीनार्थमायातैर्याचकैरिव सेवितः । १९. मरुभूति द्विपः सोऽथ तत्सरोवरमभ्यगात् ॥ २७६ ॥ ( युग्मम् ) 'कर्णाभ्यर्णभवद्भृङ्गभङ्गिमातङ्गपुङ्गवः । पपौ स्वच्छं पयस्तत्र नीरधाविव नीरदः || २७७ || अभितोऽभ्यहन्यमानाङ्गः प्रोत्क्षिप्तेः करिणीकरैः । पतन्तीभिः पयोवाहधाराभिरिव भूधरः ॥२७८॥ कार्यमाणाम्बुजमासो द्विपैराधारंणैरिव । हस्तिमल्ल वाम्भोधौ सस्नौ तत्र स कुञ्जरः ॥ २७९ ॥ ( युग्मम् ) अञ्जनाद्रिरिवाम्भोभिताङ्गः स सरोजलैः । तत्पालीमारुरोहाद्रिमेखलामिव वारिदः ॥ २८० ॥ पश्यन्नितस्ततोऽपश्यत् स हस्ती सार्थसार्थिकान् । तद्दर्शनादभूत् तस्य कोपाटोपः पटीयसः ॥ २८९॥ विघ्नन् क्रमैः क्षमापीठं तर्जयन्निव जिह्मगानू । शुण्डाग्रं कुण्डलीकुर्वन् वहन्नहिमिवानने ॥ २८२॥ शीकरान् निक्षिपन् सान्द्रान् क्रोधाजीर्ण्यं वमन्निव । कुर्वन्नाताम्रदृग्युग्मं रुं पल्लवयन्निव || २८३ || सृजन्नत्युर्जितां गर्जि पर्जन्य इव भूगतः । समधाविष्ट धूमोर्णीधवभू इव द्विपः ||२८४|| (त्रिभिर्विशेषकम् ) दुर्लोपको साटोपमापतन्तमनेकपम् । यमयोधमिव क्रुद्धं वीक्ष्याक्षुभ्यंश्च सार्थिकाः ॥ २८५॥ सोऽथ सार्थजनान् दन्तावलः प्रोद्दामधामभृत् । भाययामास दन्ताभ्यां भुजाभ्यामिव धर्मराड् ॥ २८६ ॥ आरोहन् भूरुहान् केऽपि दावार्ता वानरा इव । गहरे प्राविशन् केSपि व्याधत्रस्ता मृगा इव ॥ २८७ ॥ मूर्च्छितान्येऽपतन् केऽपि विषाघ्राता इव क्षितौ । पर्याटनारदन्तश्च के पि भूतातुरा इव ॥ २८८ ॥ १ नवोढस्त्रीणां सम्बन्धिस्नेहिनः । २ आधोरणाः = हस्तिपकाः । ३ रुड् = रोष: । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy