________________
प्रथमः सर्गः शुचिरज्जुरिव स्नेहो दहनं हनुगच्छति ॥ १८१ ॥ रममाणस्तया सार्धं सिन्धुरः ( स्नेहबन्धुरः ? ) । अन्वभुङ्क्त सुखं सामयोनिजातौ यदहति ॥ १८२॥ अथारविन्दभूभर्तुर्भुवं शासयतः सतः । प्रससार शरत्कालस्तत्कीर्तेरिव नन्दनः ॥ १८३ ।। दौर्बल्यं वाहिनीवाहा भेजुयंत्र वचोऽतिगम् । गण्डूषीकृतपायोधेरगस्तरीक्षणादिव ॥ १८४ ।। नीरं नीरजनीरन्धं स्वच्छं नीराशयेष्वभूत् । अनन्तानन्तनैर्मल्यस्पर्धयेव समन्ततः ।।१८।। विकाशः काशपुष्पाणां शोभते यत्र निर्भरम् । हंसानामीयुषां मुक्तोपदेव विहिता भुवा ॥१८६। भाति यत्रातिलक्ष्मीकं मण्डलं मृगलक्ष्मणः । जगजेतुमिवोद्युक्तं चक्रं कन्दर्पचक्रिणः ॥१८७॥ स्थाने स्थाने च दृश्यन्ते हंसाः कुन्देन्दुसुन्दरीः । लब्धोदयशरत्कालभूपालतनया इव ॥१८८। यत्र गोपालपुत्राणां श्रूयन्ते गीतकेलयः । वसन्ते कलकण्ठानां कलकण्ठरवा इव ।।१८९।। विषाणैः क्षमा खनन्तश्च ककुद्मन्तश्चकासिरे । उत्किरन्तो गिरेः कूटं दन्तैर्दन्तावला इव ।।१९०॥ तदाऽरविन्दभूपालः शरत्कालोचितं सुखम् । भुखानः सोऽन्यदा तस्थौ सौधेऽद्राविव केसरी ॥१९१।। प्रियाभी रममाणः स मघवेवाप्सरोजनैः । नभस्येकंपदेऽपश्यदाव्योम व्याप्तमम्बुदम् ॥१९२।। सद्यः शक्रधनुश्चक्रचक्र प्रासीसरत् तदा । शरत्कालमहीपालप्रवेश इव तोरणम् ॥१९३।। क्वचित् कुन्देन्दु कैलास-काशसंकाशविस्तरम् । पतद्गाङ्गेयडिण्डीरपिण्डैरिव विनिर्मितम् ।।१९४॥ क्वचिच्चम्पकस्रक्चारु काञ्चनीकाञ्चनोपमम् । प्रासादोपरिगैः शातकुम्भकुम्भैरिव श्रितम् ॥१९॥ क्वचित् तर्जितगुजार्ध-जपा-कीरास्य-किंशुकम् । सालक्तैर्विहितं गच्छत्सिद्धस्त्रीणां क्रमैरिव ॥१९६॥
१ अगस्तिनामक नचत्रं शरद्युदेति । २ युगपदार्थ सप्तम्यन्तप्रतिरूपकमव्ययम् । ३ डिण्डीरः-फेनः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com