________________
पार्श्वनाथचरित्रेप्रहारार्तिसमुत्पन्नमहार्तध्यानधूसरः । तत्कालविस्मृतश्राद्धव्रतपञ्चनमस्कृतिः ॥१६६।। अर्हत्सिद्धादिशरणाशरणीकृतमानसः । वन्ध्याद्रौ भद्रजातीयः सोऽभूद् बन्धुरसिन्धुरः ॥१६॥ (युग्मम्) क्रमेण ववृधे तस्य तारुण्यं वपुषा समम् । सदन्तः स तदा सानुमतः सानुरिव व्यभात् ॥१६८॥ क्षरद्दानकणाम्भोभिः सुरभीकृतभूतलः। भ्राम्यद्भमरझङ्कारवर्धिष्णुक्रोधदुर्धरः ॥१६॥ प्रचण्डशुण्डादण्डेन कम्पितप्रौढपादपः । ईषद्भिनदन्ताभ्यां भिन्नभूधरधोरणिः ॥१७०॥ गम्भीरवदनोद्भूतगर्जितर्जितवारिदः। उद्भिन्नाद्भुतकुम्भाभ्यां कुम्भाभ्यामिव शोभितः ॥१७१।। प्रत्यङ्गोत्तुङ्गसद्भागस्पष्टस्पृष्टावनीतलः । अञ्जनाद्रिरिवोत्तङ्गः सोऽभ्रमद् वनगहरे ।।१७२।।
(चतुर्भिः कलापकम् ) कण्डूयमानो गौरिव कदाचित् करिणीकरैः । कदाचिद्धस्तिनीहस्तविन्यस्तस्वकमस्तकः ॥१७३।। कदाचित् पद्मिनीपत्रपरागकापेशं पयः। पिबन् पद्माकराट् दुग्धवारिधेरिव वारिदः ॥१७॥ कदाचिद् भापयन् भूयो भूयसीर्भिल्लवल्लभाः। स्वकुम्भस्पर्धिवक्षोजदर्शनादिव मन्युमान् ॥१७५।। कदाचिद् विचरन् कूलषाकूले सुलीलया। कदाचित् करिणीवृन्दैः सार्धं क्रीडनितस्ततः ॥१७६॥ क्रीडन् क्रीडाभिराक्रीडे विविधाभिरहनिशम् । हस्तिमल्ल इवानषीद् हस्तीशो वासरानसौ॥१७७॥
(पञ्चभिः कुलकम् ) कमठस्य प्रिया साथ वरुणा प्रियवार्तया। तादृश्या भृशमुद्विग्ना जज्ञे खेदातुराऽनिशम् ॥ १७८ ॥ स्वप्रिये च धृतद्वेषा स्निग्धस्नेहा च देवरे । विपद्य वरुणा जशे हस्तिनी तस्य हस्तिनः ॥ १७६ ॥ अथामुना भ्रमन्ती सा करिणी करिणा समम्। मेनकेव श्रितोत्साहा भवानीगुरुणा व्यभात् ।। १८० ॥ तस्यापि हस्तिनस्तस्यां विशेषादभवदतिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com