________________
प्रथमः सर्गः ।
मरुभूतिर्महात्मेति निनन्दात्मानमन्वहम् । बन्धोरपि मयाऽकारि दुर्दशैतादृशी दहा ! ॥ १४९ ॥ जीवितं यदि पश्यामि तं बन्धुं बन्धुराक्षरैः । क्षमयामि निजं मन्तुमन्तेवासीव तत्पुरः ॥ १५० ॥ तपस्यन्तं स शुश्राव कमठं तापसाश्रमे । निजापराधमुक्त्यर्थं यियासुस्तत्र सोऽजनि ।। १५१ ।। राजाद्यैः स्खलितस्यापि गच्छतोऽस्याथ कर्मनि । महानर्थे कपिशुनैः शकुनैः प्रतिकूलितम् ॥१५२॥ प्रकृत्या मृदुरात्मानं मन्तुमन्तं विदंश्च सः । ईयिवांस्तापसावासं मृत्योरिव निकेतनम् || १५३|| मृगार्भककृतोपास्ति कुशसंस्तरविस्तरम् ।
भूरिभस्मभराभ्यङ्गं वल्कलाकल्पकल्पनम् ॥ १५४ ॥ कुर्वन्तं ध्यानमत्युग्रमग्रजन्मानमात्मनः । सोऽपश्यदग्रतो गच्छन् बकोटकुटिलाशयम् ॥ १५५ ॥ ( युग्मम् ) गुरुगुप्तगरस्येव स्वभावं तस्य दुर्मतेः ।
नाशासीद् मरुभूतिः स दुर्लक्ष्या गतिरीदृशाम् || १५६ ।। गुरोरिव विनेयाणुस्तितिक्षुर्मन्तुमात्मनः ।
सोऽपतत् पदयोस्तस्य भूतलन्यस्तमस्तकः ॥ १५७॥ तदा तस्य प्रणामः स तत्क्रोधेन्धनतां ययौ । पन्नगानां पयःपानात् किं न स्याद् गरगौरवम् ? ॥ १५८ ॥ नतस्य तस्य वचनैः शीतलद्युतिशीतलैः । प्राज्वलत् कमठोऽस्नेहैः, स्नेहैः सिक्त इवानलः ॥ १५९ ॥ अस्त्येषोऽवसरो वैरिवैरग्रहणकर्मठः । कमठश्चिन्तयामास वीक्ष्य तं नतकन्धरम् ॥ १६० ॥ पाणिनाऽपातयत् प्रौढां स शिलामस्य मस्तके | तर्जयन्तीं मुष्टिपातं क्रुद्धस्य समवर्तिनः ॥ १६१ ॥ सा भाति स्म तदाऽधस्तात् पतन्ती शैलतः शिला । धीरिव श्रितदुर्बुद्धेरस्य झम्पापटीयसी || १६२॥ एकशः पतनादस्या असौ जीवन् भविष्यति । ध्यात्वेति दुर्धियानेनाssवदे सा पाणिना पुनः ॥ १६३ ॥ पुनस्ताममुचद् दुष्टः कमठचेतनामिव । शिला तत्तपसा सार्धं मरुभूतिम चूर्णयत् ॥ १६४॥ मुमुचे मरुभूतिः स ततः प्राणैस्त्वरत्वरम् । अवन्द्यवन्दनोत्पन्नपातः सत्रपैरिव ।। १६५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
११
www.umaragyanbhandar.com