SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ पार्श्वनाथचरित्रे विपक्षमिव मन्वानो मरुभूतिं निजानुजम् । परिधानविमुक्तोऽयमद्यजात इवाभ्रमत् ॥ १३४ ॥ निर्विण्णः प्राणितव्येऽपि निर्दग्धः शोकवह्निना । निजापराधमुक्त्यर्थं यियासुस्तत्र सोऽजनि । भ्रमन्नितस्ततोऽरण्ये सोऽभ्यगात् तापसाश्रमम् ॥ १३५ ॥ ( सार्धश्लेाकः ) वटा इव जटावन्तोऽर्भका इव (र्जुचेतसः ? ) कमठेक्षाञ्चक्रिरे तापसास्तापसाश्रमे ॥ १३६ ॥ पतदूबाष्पो लुलल्लालो भ्रमच्चक्षुः स्खलद्वचाः । सोऽवकू तेभ्यः स्वकं दुःखं रोगीव भेषजे रुजम् ॥ १३७ ॥ पापातिरेकादुद्वृत्तं नरकादिव नारकम् । कृमिक्रान्ततनुं श्वानमिव निन्द्यं पदे पदे ।। १३८ ॥ वीक्ष्य तं तादृगाकारं दुष्टाचारमिवापरम् । मरुभूत्यग्रजन्मानमभ्यधुस्तेऽथ तापसाः ॥ १३६ ॥ ( युग्मम् ) भो ! भद्राभद्रभूमानं मा कार्षीः खेदमीदृशम् । जीवैः क्षीवैरिवावश्यं कृतं कर्मोपभुज्यते ॥ १४० ॥ भ्रमद्भिर्भवकान्तारे जीवैर्भ्रान्तनरैरिव । कर्मणः फलमासाद्यं स्वयमुप्ततरोरिव ॥ १४१ ॥ आकण्यैवं च तद्वाचं दुःखवैराग्यभाग सौ अभ्यधाद् मूर्ध्नि विन्यस्तहस्तस्तांस्तापसानिति ॥ १४२ ॥ चेत् समस्तेषु सत्त्वेषु भगवन्तः कृपापराः । मह्यं तथापि ददतु भवन्तस्तापसव्रतम् ॥ १४३ ॥ अवगम्यैनं प्रशान्तं भस्माच्छन्नमिवानलम् । शैवतापसदीक्षां ते ददुस्तस्य शठात्मनः ॥ १४४ ॥ तद्व्रतादानतस्तुष्टः पटिष्ठः पापकर्मणि । अन्वष्ठात् कष्टमज्ञानं तादृशां सन्मतिः कुतः ? ।। १४५ ॥ मरुभूतौ स्मरन् वैरमस्मरन् कृत्यमात्मनः । दुस्तपं स तपस्तेपे कन्द-मूल-फलाशनः ॥ १४६ ॥ इतश्चैनां दशां वीक्ष्य कमठस्यातिनिष्ठुराम् । मरुभूतेरभूत् पीडा सव्रीडानां शिरोमणेः ॥ १४७ ॥ क्षणे क्षणे स्मरन् स्वान्ते वृत्तान्तं भ्रातुरात्मनः । न कापि रतिभाक् सोऽभूद् वन्ध्यभ्रष्ट इव द्विपः ॥ १४८ ॥ १ मत्तैः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy