________________
पार्श्वनाथचरित्रे
याकारि, गतसारा हि ते तिरोदधिरेऽधुना ॥ ४१ ॥ तत्प्रियाऽनुद्धरा नाम धरेव क्षान्तिधारिणी । पतिचित्तानुगामिन्या ययाऽरञ्जि जगत्त्रयम् ॥ ४२ ॥ रूपसम्पत्पराभूत पुरुहूतनितम्बिनी । याऽभवद् भर्तुरानन्दकन्दकादम्बिनीनिभा ॥ ४३ ॥ रमणीयगुणागारावभूतां तनयौ तयोः । द्विधा विहितरूपः किं पञ्चषुः किल कौतुकात् ? ॥ ४४ ॥ कमठोऽमरभूतिश्चेत्यनयोरभिधां पिता ।
स्थापयामास समये मनोरथलतामिव ॥ ४५ ॥ क्रमेण वर्धमानौ तौ रूपस्पर्धितमन्मथौ । रेजतुर्वर्य सौन्दर्यावश्विनीनन्दनाविव ॥ ४६ ॥ कृताऽनल्पकलाभ्यासौ कुलोद्वारधुरन्धरौ । यौवनं पावनं विश्वभूतिपुत्राववापतुः ॥ ४७ ॥ कमठस्याऽभवद् भार्या वरुणा हरिणक्षणा । दयिता मरुभूतेश्चाभवद् नाम्ना वसुन्धरा ॥ ४८ ॥ भुञ्जानौ भ्रातरावेतौ विषयान् विषयीप्सितान् । गेहिनीभ्यां समं स्वाभ्यां निन्यतुर्बहुवासरान् ॥ ४९ ॥ भुञ्जानौ भ्रातरावेतौ विषयान् विषयीप्सितान् । विश्वभूतिरम् वीक्ष्य वंशाधारधुरन्धरौ । पुत्रौ विरक्तो गार्हस्थ्याद् वीवधादिव भारवाड ॥ ५० ॥ ( सार्धश्लोकः ) ततश्च स स्ववंशस्य स्कन्धोद्धारणयोस्तयोः । भारमारोपयामास शकटं वृषयोरिव ॥ ५१ ॥ स्वयं मोहव्यपोहेक निदानं दान्तमानसः । वैराग्यं प्राप्य मुमुदे दरिद्रीव धनागमे ॥ ५२ ॥ कषाय विषयोत्तुङ्गशैलशैलारिसोदराम् । गुर्वन्तिके तपस्यां स विश्वभूतिरुपाददे ॥ ५३ ॥ विधायानशनं चान्ते नमस्कृतिस्मृति सृजन् । विश्वभूतिस्ततो मृत्वा सौधर्मे त्रिदशोऽजनि ॥ ५४ ॥ अनुद्धराऽपि स्वधवनिधनव्यथिताऽधिकम् । दुस्तपं च तपस्तेपे सतीनां यदसौ क्रमः ॥ ५५ ॥ तपःक्षामतनुर्दावानलप्लुष्टेव मालती ।
१ पुरुहूतः इन्द्रः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com