________________
पार्श्वनाथचरित्रे
समादायेव शीतांशोः खण्डं नलिन योनिना । विदधे रसना येषां ते सन्तः सन्तु शर्मणे ॥ ११ ॥ चन्दनेन्दुकला कुन्दमरन्दस्यन्दसुन्दराः । वाग्विलासाः सतां सन्तु जगदानन्दहेतवे ॥ १२ ॥ करोतु खलराड् राज्यं गुणिदूषणभूषणः । यद्भीत्या सावधानाः स्युः सन्तः सद्धर्मकर्मणि ॥ १३ ॥ द्विककर्कशवाक्येऽपि विरञ्जयति दुर्जनः ।
भवेद् गोरसवृद्धयै यद् निस्नेहोऽपि खलः खलु ॥ १४ ॥ दुर्जनो वन्दनीयोऽसौ यज्जिह्वा काव्यदीपिका | विना पाषाणखण्डं किं श्रीखण्डमहिमा भवेत् ? ॥ १५ ॥ प्रसन्ना यदि सन्तः स्युर्विश्वानुग्रहकारिणः । किं खलैः खलु दुर्वृत्तैः काव्यरत्नाऽपरीक्षकैः ? ॥ १६ ॥ द्विजिहजिहै कज्वालाजिह्नज्वालासुतापितम् । काव्यस्वर्णं सतां कर्णभूषणौचित्यमर्हति ॥ १७ ॥ सच्चरित्रचमत्कारि रत्नाकरसमुद्भवम् । सद्दृष्टितुष्टिसंघातपरीक्षकपरीक्षितम् ॥ १८ ॥ खलजिह्वारया विद्धं तेजितं तद्वचोघनैः ।
काव्यरत्नमिदं भूयाद् विदुषां कण्ठभूषणम् ॥ १६ ॥ ( युग्मम् ) विषापहारविद्याया विषाणीव समन्ततः ।
महतां कीर्तनादेव गलन्त्येनांसि तत्क्षणात् ॥ २० ॥ महद्भयोऽपि महान्तो येऽर्हन्तस्तत्कीर्तनादू न किमू । चेत् पयःपानतस्तृष्णा याति किं नामृतस्य तत् ? ॥ २१ ॥ निबद्धानि प्रभोः पूर्वं सूरिभिर्भूरिभिर्यदि । चरित्राणीह भूरीणि स्वपरोपकृतेः कृते ॥ २२ ॥ तथापि स्वल्पबुद्धीनामुपकारकरं नृणाम् । सम्यक् सम्यक्त्वमाणिक्यावाप्तये चात्मनः पुनः ॥ २३ ॥ श्रोतृश्रोत्रेषु पीयूषवर्षि वर्षासखं मया । चरित्रं पार्श्वदेवस्य यथादृष्टं प्रकाश्यते ॥ २४ ॥ ( युग्मम् ) जम्बूद्वीपाभिधो द्विपो वृत्तसंस्थानसंस्थितः । वृतोऽसंख्याम्बुधिद्वीपैः सेवकैरिव नायकः ॥ २५ ॥ वेष्टितः शुशुभे योऽत्र परितः क्षारवार्धिना ।
१ स्नेहः - द्रवपदार्थो गोरसवृद्धिं करोत्ययं तु निस्नेहोऽपीति विरोधः; निस्नेहः — प्रेमाभाववान्, गोरसो वाक्रस इति परिहारः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com