SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। १६७ पुत्रदुःखापनोदाय जगाद मधुरं वचः ॥२९॥ हे वत्स! गच्छ यानेन सिंहलद्वीपमम्बुधौ। सोऽपि पित्राज्ञया प्राप द्वीपं द्राक् स्वसमीहितम् ॥१०॥ उपाय॑ द्रविणं भूरि व्यापारैभूरिभिस्ततः। अचालीद यानपात्रेण बन्धुर्निजां पुरीं प्रति ॥१०॥ तस्याथ चलतो लोलैरनिलैः प्रतिकूलितम् । आनन्देन सहाम्भोधी यानपात्रमभज्यत ॥१०२॥ गृहीत्वा दारुणः खण्डमखण्डेन निजौजसा। छुडन्नितस्ततः प्राप स कूलं कूलिनीपतेः ॥१०३॥ स्वस्थीभूयाम्बुधेस्तीरे ततः सोऽचलदग्रतः । रत्नदीपं क्रमेणापदारोहच प्रमोदभाक् ॥१४॥ रत्नैर्विनिर्मितं स्वर्णमाणिभिः कृततोरणम् । तत्रारूढो ददर्शेष प्रोत्तुङ्गं चैत्यमहतः ॥१०५॥ प्रासादान्तः प्रविष्टः स श्रीमन्नेमिजिनेशितुः । बिम्बमम्बुधरच्छायं वीक्ष्य प्रीतिं परां दधौ ॥१०॥ नत्वा नेमि स तत्रस्थान निग्रन्थानभ्यवन्दत । यतीनां जन्मतः सर्व निजोदन्तं जगाद च ।।१०७॥ अथो कारुण्यपुण्याभिर्वाग्भिः प्रोक्तां तपस्विभिः । बन्धुदत्त उपादत्त विरतिं गृहमेधिनाम् ॥१०८॥ इतश्चित्राङ्गदो.नाम खेचरः खेचरोत्तमः। गच्छन् गगनमार्गेण चैत्यं वीक्ष्योत्ततार सः ॥१०९॥ प्रणम्य प्रतिमां तत्र मुमुक्षूश्च नभश्चरः। साधुभ्यो बुद्धतद्वाबन्धुदत्तं गृहेऽनयत् ॥११०॥ धर्मबन्धुरसौ बन्धुर्माननीयो ममाधुना। इति धात्वा व्यधात् सोऽस्य भक्तिं मजनभोजनैः ॥१११॥ सत्कृत्य स्वर्णरत्नाद्यैर्वन्धुमूचे नभश्चरः । भद्र ! साधर्मिकत्वेन पूज्योऽसि मम सर्वदा ॥११॥ अतः किं ते प्रयच्छामि कन्यालावण्यमालिनीम् । विद्यां वा कामिति स्थानगामिनी व्योमगामिनीम् ? ॥११३।। श्रुत्वेति वचनं बन्धुदत्तभित्राङ्गदं प्रति । विद्या त्वदेया मद्वश्येत्युक्त्वा तूष्णींपरोऽजनि ॥११४॥ ततश्चित्राङ्गदो दध्यौ नूनमेष समीहते । मत्तः कनी कमनीयां मेघाद् वारीव चातकः ॥११५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy