SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ पार्श्वनाथचरित्रेअथो चतुर्णामप्येषां तस्थुषां बौद्धदर्शने । प्रान्ते चरमदेहत्वादिदं हृदि विजृम्मितम् ।।८३॥ हा ? मातृमुखमुख्यानामस्माकं कर्मगौरवम् । मरौ दुममिव प्राप्य मुक्तोऽस्माभिर्जिनो गुरुः ॥४॥ दर्शनादेव देवस्य यस्य स्याद् मुक्तिसङ्गतिः । ईप्सितार्थप्रसूतेस्तत्प्रर्युपास्तेस्तु का कथा ?॥८५॥ धिगस्मानैहिकसुखकृते चारित्रमोचिनः। पङ्किलांह्रिक्षालनाय निलोठितसुधाघटान् ॥८६।। धिगस्मान् कृत्यदुष्कृत्यान् यदस्माकं तपो धनम् । प्रमाददस्युनाऽहारि सुप्तानामिव जाग्रताम् ।।८७॥ भवभ्रमणभीतानां भूतानां जगदीश्वरः। त्वमेव शरणं स्फातशीतार्तानामिवानलः ॥८८|| मजतां भवपाथोधावस्माकं परमेश्वरः । करावलम्बनं देहि धर्मो ह्येष महात्मनाम् ।।८९।। एवं भावयतां तेषामभेदं चात्मपार्श्वयोः । अपूर्व वीर्यमस्फुरत् कर्मन्धनधनञ्जयः ॥९०।। मूलादुन्मूल्य कर्माणि ध्यानादिति विभोरमी । कैवल्यं कलयामासुः कलितामलकेवलाः ॥११॥ इतश्चामूद्धवि ख्याता नाम्ना नागपुरी पुरी। यत्पुरस्ताद नागपुरी बभौ गोपालपूरिव ॥९२।। तस्यां धनपतेः पुत्रो बन्धुदत्ताभिधोऽभवत् । दग्धे स्मरे सिषेव यं रतिः प्राप्तपतिभ्रमा ॥९३॥ स युवा युवतीचक्षुश्चकोररजनीकरः। वसुनन्दसुतां चन्द्रलेखाख्यां परिणीतवान् ॥१४॥ साऽथ कङ्कणहस्तैव दष्टा दुष्टेन भोगिना। निशायां प्राप पञ्चत्वं धिग्धिग् विलसित विधेः ।।१५।। तस्यति षट् प्रिया ऊर्द्धमात्रा एव मृति ययुः। नाऽन्यां कन्यां पुनस्तस्मै ददौ कोऽपि विषात्मने ॥१६॥ यातं भुकं स्थितं सुप्तं सर्वं दुःखमयं विदन् । बन्धुः किंकृत्यतामूढो गतसंज्ञ इवाभवत् ॥१७॥ अाऽनया बन्धुदत्तः क्षीयमाणो दिने दिने । श्यामपक्षेन्दुवज जझे कृशाङ्गश्च शनैः शनैः ॥९८॥ दुःखातुरं मुतं वीक्ष्य पितैतदुःखदुःखितः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy