SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १५६ पार्श्वनाथचरित्रे मालवकैशिकीमुख्यग्रामरागानुरागया । संस्कारवत्त्वप्रभृतिपञ्चत्रिंशद्गुणस्पृशा ॥ ३९५ ॥ नरतिर्यक् सुरश्रेणीवाणी विज्ञानविज्ञया । आदेश नोवगामिन्या मेघगम्भीरया गिरा ।। ३९६ || निःसरद्दशनज्योतिःप्लावप्लावितदिग्मुखः । सर्वतः सम्मुखः स्वामी विदधे धर्मदेशनाम् ||३९७ ॥ (त्रिभिर्विशेषकम् ) दानशीलतपोभावभेदैर्धर्मश्चतुर्विधः । सोप्यऽत्र पुण्यहीनानां कल्पदुरिव दुर्लभः ॥ ३९८ ॥ दानं देयं सदैवान्यदनुष्टान परैरपि । दत्तं यदाब्दिकं दानं जिनैर्निर्णीतमुक्तिभिः ॥ ३९९॥ दान कल्पतरोः सार्वभौम भोगास्तु पल्लवाः । स्वर्मोगाः सुमनःश्रेणी महानन्दः फलोदयः || ४००|| वैक्रियौदारिकात् कामाद् मनोवाक्तनुतश्चुतिः । कृत्याऽनुमत्या कारित्या ब्रह्माष्टधा भवेदिति ॥४०१ || रूपलावण्यतारुण्यभाग्य सौभाग्यमद्भुतम् । शीलेनैव भवेद् नूनं लवणेनेव भोजनम् ॥४०२॥ मन्त्रयन्त्रौषधीसिद्धिं देवाः प्रत्यक्षतां क्षणात् । यान्ति नूनं ब्रह्मचर्यचर्याचर्येषु देहिषु ||४०३॥ व्याघ्रोर गजलव्यालज्वलनादिसमुत्थिता । भीतिर्भीतेव शीलैकलीलातो याति दूरतः ॥ ४०४ ॥ नवभिर्गुप्तिभिर्गुप्तं यैः शीलं परिशीलितम् | मुक्तिसीमन्तिनी तेषां स्यादवश्यं वशंवदा ||४०५ ॥ निकाचितानां दुष्कर्ममर्मणामपि भेदकम् । दुःखसाध्यं हीनसत्त्वैस्तपो द्वादशधा स्मृतम् ॥४०६॥ संन्यासानौदर्यवृत्तिसंक्षेपा रसवर्जनम् । संलीनता तनुक्लेशः षोढैव बाह्यकं तपः ॥ ४०७ प्रायश्चितं च व्युत्सर्गः स्वाध्यायो ध्यानपद्धतिः । वैय्यावृत्त्यं च व्युत्सर्गः षोढेत्याभ्यन्तरं तपः ॥४८॥ तपो द्वादशधाऽप्येतद् निर्निदानं निषेवितम् । निदानं निर्वृतेर्दाने स्यादवश्यं शरीरिणाम् ||४०९ ॥ दुष्कुलकलङ्कितानां दुस्तपं तपतां तपः निर्जराः किङ्करायन्ते वेतनैः क्रीणिता इव ॥ ४१० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy