SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः । धर्मचक्रं धर्मचक्रिलक्ष्म्याश्चिह्नमिव स्फुटम् ॥ ३७८ ॥ महत्स्वपि महानेकोऽसावेवात्राधिदैवतैः । त्वत्पुरो विदध स्वामिन्नयमिन्द्रध्वजो महान् ॥३७९ ॥ सत्वरं भगवन् ! भवान् जज्ञे यश्चतुराननः । मन्ये चतुर्गतिद्वारकपाटजडताय तत् ॥ ३८० ॥ उल्लसन्नेष कङ्केल्लिवेल्लत्पल्लवमालितः । भवानिव विभो ! केषां चक्षुषां नाऽभवद् मुदे ? || ३८१ ॥ विभो ! त्वं कज्जलच्छायः स्वर्णसिंहासनस्थितः । मेरुलीन इवाम्भोदः सन्मयूरमुदं व्यधाः ॥ ३८२॥ छत्रत्रयी मणिस्वर्णरजतै रचिता विभो ! । भुवि भूभवनैश्वर्य प्रोश्चैरियमसूचयत् || ३८३॥ छत्रत्रयी भवन्मूर्ध्नि पार्वणेन्दुनिभा व्यभात् । ज्ञानदर्शनचारित्रत्रयप्राचुर्यसूचिका ॥ ३८४ ॥ परुवच्चामरश्रेणी धवला पार्श्वयोस्तव । मुखाम्भोरुहसेवायै मरालालिरिवागता || ३८५ ॥ देवदुन्दुभयो देव ! नदन्तो गगनाङ्गणे । इत्यभ्यधुरसावेव जेता क्रोधादिवैरिणाम् ॥३८६|| गन्धाम्बुवर्षणं हर्षात् तेनिरे त्वत्पुरः सुराः । सिञ्चन्त इव बोधिदुमुञ्चः पद फलाप्तये ॥३८७॥ पञ्चवर्णा पुष्पपङ्क्तिन्यपतद् भवतः पुरः । त्यक्तैव बाणा लिः पञ्चवाणेन त्रासमीयुषा ॥ ३८८ ॥ ये नृतिर्यक्सुरा गाढारूढमत्सरिणां मिथः । त्वत्सङ्गात् सुहृदायन्ते ते परस्परवत्सलाः ॥ ३८९ ॥ केशश्मश्रुनखा यन्नो वृद्धिं यान्ति विभो ! तब | आप्तो नाप्तैः परैरेष एतावान् महिमा भुवि ॥ ३९०॥ अनुकूलेन्द्रियार्थं त्वामृतवो युगपत् समे । : भेजुः षड्जीवनिकाया इव त्राणात् सतुष्टयः ॥ ३९९ ॥ एतैरतिशयैस्तारैस्ताराभिरिव चन्द्रमाः । कलितः प्रभो ! न कस्य दृचकोरमुदे भवेः ? ॥३९२॥ नमस्ते ज्ञानविज्ञानप्रज्ञाप्राग्भारशोभिने । जगच्चित्तचमत्कारिसर्वातिशयशालिने ॥ ३९३॥ स्तुत्वेति मुनिमूर्धन्यं मूर्धिन बद्धाञ्जलिर्नृपः । यथास्थानं स्थितः स्वामिमुखलीन विलोचनः ॥३९४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat १५६ www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy