________________
१५०
पार्श्वनाथचरित्रे
इतो दुर्मतिना तेन प्रारभेऽथ वर्षितुम् । धारापातैर्दुरापातैः पर्वतोत्पातकारिभिः ॥ २९७॥ पतद्भिः पाथसां पूरैः पूरिताखिलभूतलैः । सम्भृतं तद्वनं सर्व जलाद्वैतमिवाजनि ॥२९८॥ कूपाः कासारतां प्रापुर्गोष्पदाः कूपरूपताम् । नद्यश्च स्वर्णदीभावं कासाराश्च पयोधिताम् ॥२९९॥ सरिद्भावं च सारिण्यो द्रहतां वनदीर्घिकाः । एषु मेघेषु वर्षत्सु पानीयैः प्रचुरैरिति ॥ ३००॥ ( युग्मम् ) पतत् तत् सलिलं लोकानस्तोकान् प्लावयत् क्रमात् । कायोत्सर्गजुषो भर्तुर्जानुदध्नमजायत ॥ ३०९ ॥ धवलध्यानसम्बन्धाधारस्य जगदीशितुः । क्रमतः कटिकण्ठाग्रं यावदेति स्म तत्पयः ॥ ३०२ ॥ तोयान्तर्मग्नवपुषः शुशुभे वदनं विभोः । जलान्तर्लीीननालस्य कोशं किञ्जलजन्मनः ||३०३|| पानीयं घटति स्म तत् स्वामिनासाऽवधि क्रमात् । चित्रं तद् यद् भवाम्भोधौ निर्मग्नः सोऽसुराधमः ॥ ३०४|| स्थासकाः स्थूलविस्ताराः परितः परमेश्वरम् । क्षणिकत्वमयाः स्थैर्यमध्येतुमिव भेजिरे || ३०५ || एवं विधीयमानेऽस्मिन्नुपसर्गे जगद्गुरौ । तदयैवाभवद् विश्वं विश्वमप्येतदाकुलम् ||३०६ || इत्थं शठेन हठतः कठेन कठिनात्मना । पीडितोऽपि जगद्भर्त्ता मेरुवत् स्थैर्यभागभूत् ॥३०७॥ इतो दुःसर्गसंसर्गमुपसर्गमिमं विभौ । विदित्वाऽऽगात् सपत्नीको भोगिराड् भक्तिभङ्गरः ||३०८|| आगत्य द्राक् स सर्पेन्द्रः स्वामिनो मस्तकोपरि । छत्रपक्तिमिव स्फारां फणाश्रेणिमधारयत् ॥३०९ ॥ रेजिरे स्वामिनो मूर्ध्नि फणाश्रेणिमणित्विषः । विश्वप्रकाशनोद्दीप्राः प्रदीपकलिका इव ॥ ३९० ॥ स्थितं प्रतिमया नाथं पाथः समग्रविग्रहम् । आत्मना सममुद्धृत्य दधौ स्कन्धे भुजङ्गराट् ॥३११॥ भुजङ्गभर्तुः स्कन्धस्थः शुशुभे भुवनप्रभुः । पाथः सनाथशैलस्य मौलिलीन इवाम्बुदः ||३१२|| एवं भक्तिं प्रकुवार्ण स्वप्रियं वीक्ष्य तत् क्षणात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com