________________
पञ्चमः सर्गः। अप्राक्षीत् पुष्कलः श्राद्धः साधुं मधुरया गिरा ॥२४७॥ स्वामिन्नसौ द्विजः कुष्टविनष्टो जिनवेश्मनि । यजिनान् वन्दतेऽस्यैतत्साम्प्रतं वाप्यसाम्प्रतम् ? ॥२४॥ पुनः प्राह मुनिः श्राद्धं रोगवानप्यसौ द्विजः । यद् देवान् वन्दते देवगृहाशातनां त्यजन् ॥२४९॥ नैव भावप्रधानस्य दोषोऽमुष्य तदा भवेत् । नमन्ति यजिनान् मलक्लिन्नाङ्गा अपि भिक्षुकाः ॥२५०॥ तन्मिथ्या दुष्कृतं भूयाद् यदस्याशातनां व्यधाम् । इति बुवाणः श्रमणं प्रोचिवान् पुष्कलः पुनः ॥२५१॥ का गतिर्भाविनी स्वामिन् ! मृतस्यास्य द्विजन्मनः ? | एवं तेनोदितेनापीत्युदीर्ण च मुमुक्षुणा ॥२५२॥ निबद्धमायुरंमुना तिर्यग्योनौ द्विजन्मना । तेनायं कुर्कुटो भावी विपद्यातो भवान्तरे ॥२५३।। वाचं वाचंयमस्यैवं समीचीनां निशम्य सः। शल्येनेव ययौ खेट भाविदुःखेन दुःखितः ॥२५॥ अतिखेदं प्रकुर्वाणं ब्राह्मणं श्रमणोऽब्रवीत् । भो भद्र !खेदं मा कार्षी न्यथा कर्मणां स्थितिः॥२५५॥ इत्थं निग्रन्थकथितैर्वचोभिश्च्युतशोचनः । स प्रोचे प्रतिभू मुक्तेः कदा मे बोधिसङ्गमः ? ॥२५६॥ अभ्यधाज् ज्ञानवानेवं ब्राह्मणं स क्षमाधनः । इतो मृत्वा राजपुरे ताम्रचूडो भविष्यसि ॥२५७॥ तत्रापि भविता जातिस्मृतिस्ते मुनिदर्शनात् । विधायानशनं चान्ते ततो मरणमाप्स्यसि ॥२५८॥ मृत्वा तत्रैव भावी त्वमीश्वराख्यः क्षितीश्वरः । ऋद्धया धुत्या च हारिण्या पुरुहूत इवापरः ॥२५९॥ अन्येयुः क्रीडनाक्रीडक्रीडया निर्गतः पुरात्। त्रयोविंशं जिनं पार्श्व तस्थिवांसं च द्रक्ष्यसि ॥२६०॥ दर्शनं दर्शनीयस्य तस्य दृष्टा मनोरमम् । लप्स्ये संमूञ्छितो जातिस्मरणं कारणं मतेः ॥२६॥ तदैव ते महाभाग ! भावी सम्यक्त्वसङ्गमः। एवं तद्वचनैस्तुष्टिकरैस्तुष्टिं द्विजोऽभजत् ॥२६२॥ सोऽहं निर्वर्ण्य निर्वर्ण्यमुखं काशीशनन्दनम् । अस्मार्षे पूर्ववृत्तान्तं शानिनोक्तमिव द्रुतम् ।।२६३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com