________________
१४६
पार्श्वनाथचरित्रे
गृहान् निष्काशितो दुष्टकुष्ट क्लिष्टवपुस्ततः । स ग्रासमात्रमप्यन्नं जरन् गौरिव नाप्तवान् ॥२३१॥ एवं तद्रोगसंयोगोद्विग्नोऽसौ वाडवाग्रणीः । वल्लभानप्यवाज्ञासीत् प्राणानात्मरिपूनिव ॥ २३२ ॥ अन्यदाऽसौ निजप्राणपरिहारपरायणः । धर्मबुद्धयाऽभ्यगाद् गङ्गातीरं निष्पापमृत्यवे ॥२३३॥ स यावज्जाह्नवीं प्राप चारुवारितरङ्गिताम् । अनुज्ञाप्य प्रवेशार्थमुत्सुकोऽजनि तज्जले ॥२३४॥ तावत् केनापि स व्योमचारिणा भिक्षुणा क्षणात् । ददृशे सुकृताराम सारणीसदृशा हशा ॥ २३५॥ प्रोचे च यतिना भद्र ! कथं पतसि पाथसि ? | बालेन मृत्युनाऽनेन दुःखावाप्तिः शरीरिणाम् ॥ २३६ ॥ स्वस्मिन् कुष्टेन रोगेण गतं विद्यादिकं मम । तद्विना किं तृणप्रायैः प्राणैः संरक्षितैः खलु ॥ २३७॥ एष स्वर्वाहिनीवाहस्तीर्थं त्रैलोक्यपावनम् । स्पर्शोऽप्येतस्य तोयस्य हन्ति दुःखान्यनेकशः ॥ २३८॥ अतस्तीर्थेऽत्र दुष्कर्म मर्मवारिणि वारिणि । निपत्याहं करिष्यामि सफलं जनुरात्मनः ॥२३९ || तेनेत्युक्तः पुनः प्राह ब्राह्मणं श्रमणोत्तमः । कृतेनापि हि गङ्गायां किं मुधा मृत्युनाऽमुना ! ॥ २४०॥ जरामरणदौर्गत्य दुःखादेर्दिव्यमौषधम् । विधेहि धर्म सार्वज्ञं सर्वज्ञभिषजोदितम् ॥२४१ ॥ किं तद्रोगापहं दिव्यं भेषजं भिक्षुपुङ्गव ! ? | इत्युक्ते तेन यत्यूचे तत्पुरो धर्ममाईतम् ॥ २४२॥ तत्पार्श्व श्रद्धया श्राद्धधर्ममङ्गीचकार सः । साधुः सोऽपि ययौ व्योममार्गेणान्यत्र पत्रिवत् ॥ २४३ ॥ तं धर्मं विधिवद् नित्यं स विप्रः परिपालयन् । अन्येद्युरगमद् देववन्दनार्थ जिनाकसि ॥ २४४॥ अर्हतां प्रतिमास्तत्र प्रणम्यातिप्रमोदतः । वन्दित्वा च मुनींस्तस्थौ स यावद् मुनिसन्निधौ ॥ २४५ ॥ तावश्चोपाश्रये तत्र श्रावकः पुष्कलांऽपि च । आयातः स मुनिं नत्वा यथास्थानं निषण्णवान् ॥ २४६ ॥ अथैनं कुष्टिनं दृष्ट्ट्रोपविष्टं तत्प्रतिश्रये ।
?
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com