SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः । तथापि मुखरैः परैर्विदधे हास्यभूरहम् ॥१८१ ॥ तत्तनुं स्वां तनुं निन्दन्नभिनन्दन् महातनुम् । आर्तध्यानपरः प्रान्तेऽहं प्रापमान्तिमां दशाम् ॥ १८२ ॥ ततोऽहमभवं मृत्वा सिन्धुरो भूधरोपमः । निर्विवेकं हि तिर्यक्त्वमार्तध्यानतरोः फलम् ॥ १८३॥ निर्विवेकः पशुरहं किं करिष्यामि सम्प्रति ? | यदन्धाविव तिर्यक्त्वे न्यपतं स्वल्पधीः खलु ॥ १८४ ॥ किमेभिः कल्पनाजालैरल्पैर्मम च दुर्मतेः ? | आश्रयाम्यमुमेवात्र प्रभुं द्वीपमिवाम्बुधौ ॥ १८५ ॥ इति ध्यात्वा स संजातजातिस्मृतिरिभप्रभुः । क्षीराब्धौ सुरहस्तीव प्रविवेश सरोवरे ॥ १८६॥ भृत्वा दृतिमिवाम्भोभिः शुण्डामुद्दण्डभक्तिभाग् । आगात् स्नपयितुं नाथं कृतस्नानः स सिन्धुरः ॥ १८७॥ तैः पयोभिर्जगन्नाथं स्नपयित्वा शनैः शनैः । पद्मान्यानेतुमविशत् तटाके करटी पुनः ॥१८८॥ ततोऽम्भोजानि भूरीणि सुगन्धीनि मृदूनि च । आदाय द्विरदः सोऽथ स्वामिनं तमपूजयत् ॥ १८९ ॥ पूजयित्वा च नत्वा च भूयो भूयो जगद्गुरुम् । यथास्थानं ययौ भावबन्धुरः सिन्धुराग्रणीः ॥ ९९० ॥ अथ क्रीडार्थमायाता व्यन्तरास्त्रिजगत्पतिम् । दृष्ट्वा भूयिष्ठसन्तुष्टि प्राप्नुवन्ति स्म विस्मिताः ॥१९१॥ पुष्पैः परिमलोल्लासैरानीतैर्वनगह्वरात् । भावतोऽभ्यर्थयामासुर्व्यन्तराः स्वामिनो वपुः ॥ १९२॥ वेणुवीणामृदङ्गादिवादित्रध्वनि बन्धुरम् । नृत्यं वितेनिरे तत्र व्यन्तराः पुरतः प्रभोः ॥१९३॥ वीक्ष्य तत्प्रेक्षणं दिव्यं तदासन्नवनेचराः । अभ्यगुः पुरि चम्पायां तदाश्चर्यचमत्कृताः ॥ १९४ ॥ भिल्लास्त विस्मितस्वान्ता वृत्तान्तं तमशेषतः । द्वतं विज्ञापयामासुः करकण्डुमहीभुजे ॥ १९५॥ मिशम्य तन्मुखादेतां वार्ताममृतसोदराम् । ससेनो वन्दितुं नाथं यावदायाति भूपतिः ॥ १९६॥ तावदनियत स्थितिर्वायुवत् परमेश्वरः । व्ग्रहरत् स्थानतस्तस्मात् पुरप्रामाकरादिषु ॥१९७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat १४३ www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy