________________
पञ्चमः सर्गः। भगवद्विप्रयोगोत्थव्यथाव्यथितमानसः ॥१४८॥ अश्वसेनोऽपि तैः पौरैः सार्ध स्वपरिवारवान् । आजगाम निजं धाम नतपार्श्वपदद्वयः ॥१४९॥ (युग्मम्) भगवानपि तत्रैव प्रलम्बितभुजद्वयः । ध्यायन् सिद्धान् विशुद्धात्मा कायोत्सर्गेण तस्थिवान् ॥१५०॥ ततः स्थानाद् द्वितीयेऽह्नि विजहार जगद्गुरुः। पावयन् काश्यपीपीठं पादपाथोजपांशुभिः ॥१५१॥ क्रमात् स कोपकटाख्ये संनिवेशे जिनेश्वरः। प्रविवेश पारणाय धन्यस्य गृहिणो गृहे ॥१५२॥ धन्यंमन्यः स धन्यात्मा धन्यः स्वामिनमङ्गणे । सुरद्रुममिवायान्तं वीक्ष्य रोमाञ्चितोऽजनि ॥१५३।। युगमात्रान्तरन्यस्तलोचनो भगवानपि । आकृष्ट इब तद्भाग्यैर्भिक्षार्थमुपतस्थिवान् ॥१५४॥ वीक्ष्य नाथं च भिक्षार्थ प्राङ्गणे समुपस्थितम् । धन्यो विवेकधन्यः स प्रणम्यैवमभाषत ॥१५५॥ इदं त्रिकोटि शुद्धं च पायसं परमेश्वर !। गृहाणानुगृहाणेमं मां भुजिष्यधुरि स्थितम् ॥१५६॥ स्वामी सोऽपि परमानमेषणीयं समीक्ष्य तत् । पाणी प्रसारयामास भवाम्भोधितरीनिभौ ॥१५७॥ सद्यः समुल्लसद्भक्तिभङ्गरः पुलकाङ्कितः । मनोवाक्तनुजां शुद्धिं दधानश्वातिशुद्धधीः ॥१५८॥ शुद्धन परमानन तेन धन्यः सप्राञ्जलिः। स्वामिनः कारयामास पारणं भववारणम् ॥१५९।। अहो ? दानमिति स्पष्टोद्घोषणा खे समुद्ययौ । दिवि दुन्दुभयो नेदुटुंसद्भिस्ताडितास्तदा ॥१६०॥ अर्धाधिका द्वादशाशु काञ्चनानां च कोटयः। अहंदानैकसन्तुष्टैः सुरैस्तत्र वितेनिरे ॥१६॥ गन्धोदकानि भूरीणि भूरीणि कुसुमानि च । वासांसि देवदृष्याणि ववृषुस्तत्र नाकिनः ॥१६२॥ समक्षं सर्वलोकानामूललोकसदां गणैः । नत्वा स्तुत्वा च सश्चक्रे स धन्यो धन्यधीनिधिः ॥१६३॥ महिमानमिमं वीक्ष्य चमत्कारैककारणम् । धन्यं प्रशंसयामासुः पुराधीशादयो जनाः ॥१६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com