________________
१३३
पञ्चमः सर्गः । यस्मादहं स्वजठरपिठरापूरणाऽक्षमः ॥१६॥ भोगोपभोगसंयोगयोगाः खलु शरीरिणाम् । तपसः स्युः पयोवाहादिव काननकाम्यता ॥१७॥ इत्थं ध्यात्वा कठः शीघ्रं तापसवतमाददे । सोऽथ तेपे तपस्तीवं कन्दमूलफलाशनः ॥१८॥ चतुर्दिक्षु चित्रभानुश्चित्रभानुस्तथोपरि । एवं प्रकुर्वन् पञ्चाग्नितपः सोऽत्र समाययौ ॥१९॥ केचित् तमचितुं केचिद्वीक्षितुं कौतुकात् कठम् । अतः सप्राभृताः पौरा यान्त्यमी नगराद् बहिः ॥२०॥ एवमाकर्ण्य तद्वाक्यं कौतकोत्कण्ठितः प्रभुः । रथारूढो ययौ तत्र निजैः परिजनैः समम् ॥२१॥ ज्ञानत्रयधरो ज्ञानवतां मुख्योऽश्वसेनसूः। काष्ठान्तस्तत्र ज्वलने ज्वलन्तमहिमैक्षत ॥२२॥ लोकैरभ्यर्चितं भावमुग्धैः पुष्पाक्षतादिभिः । कथं प्रोवाच दृष्वैतत् सर्व दुर्ललितं प्रभुः ॥२३॥ अहो ? अज्ञानमज्ञानमहो ? ते कष्टमुत्कटम् । किं वृथा कुरुषे पापं भवभ्रमणकारणम् ? ॥२४॥ कठ ! दुष्ट ! कठोरात्मन् ! मिथ्याज्ञानविमोहितः। मा विधेहि मुधा कष्टं बीजोतिमिव पावके ॥२५॥ क्षीरस्येव नवनीतं प्रस्तरस्येव काञ्चनम् । धर्मस्य सारं कारुण्यं न जानासि शठः कठ ! ॥२६॥ विना जीवदयां सर्व कष्टं कठ ! वृथा तथा । विना कृतस्य जीवेन शरीरस्येव मण्डनम् ॥२७॥ इत्याकर्ण्य विभोर्वाचं कठो दुष्कर्मकर्मठः । अभूत् पूर्वभवाभ्यस्तकोपाटोपपरःक्षणात् ॥२८॥ अहो? मुखरता राजसूनोर्धाष्टर्यमहो ? पुनः। उन्मत्त इव यद् ब्रूते वचो मत्पुरतोऽपि यः ॥२९॥ कोऽसौ दिदृक्षुर्नरकं नरो मत्तपसां विधौ । आगाद् विघ्नकरो मातृमुखमुख्यः पुरो मम ? ॥३०॥ इति ध्यात्वा वचः प्रोचे संदष्टौष्ठः स दुष्टधीः । पञ्चाग्निप्रवेशे तीव्रतापोद्वारमिवाद्भुतम् ॥३१॥ गजवाजिरथादीनां वाहनं सुखसाधनम् । भामिनीभोगसम्भोगा जानन्ते राजनन्दनाः ॥३२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com