SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ अहम् पञ्चमः सर्गः। अथान्यदा जगद्भ धिरूढः सौधमूर्धनि । करैरिवेन्दुदृक्पातैर्वाराणसीमपावयत् ॥१॥ इतश्च सप्रियान् पौरान पूजोपस्करप्रामृतान् । प्रभुर्निभालयामास गच्छतः पुरतः पुरः ॥२॥ वीक्ष्यैतान विस्मयस्मेरलोचनस्त्रिजगद्गुरुः। अप्राक्षीत् सेवकं कञ्चित् पौराणां गतिकारणम् ॥३॥ सोऽप्यवगततद्वानों वार्तयन् स्वामिनं निजम् । नाथैकस्मिन संनिवेशे द्विजोऽभूद् दुर्गतावधिः ॥४॥ अभवद् नन्दनस्तस्य निर्भाग्याणां शिरोमणिः । जातमात्रेऽथ तस्मिस्तत्पितरौ मृतिमापतुः ॥५॥ कृपया सोऽभको लोकैर्जीवितः कष्टतोऽलभत् । कठ इत्यभिधांप्राप तारुण्यं च क्रमेण सः ॥६॥ भ्रमन भिक्षाकृते ग्रामाद् ग्रामं चैव गृहाद् गृहम् । उदरं पूरयामास सोऽनरत्यन्तनीरसैः ॥७॥ सोऽन्यदा नगरे कापि हारादिभिरलङ्कताः। स्वैरं क्रीडन्ति भूप्राप्ता वासवा इव केचन ॥८॥ अर्थनाव्यग्रहस्ताग्रानथिसार्थान् घनर्धनैः। प्रीणयन्ति पुनः कल्पपादपा इव केचन ॥९॥ के चिद्विहितगृङ्गारा भृङ्गारोद्भासिपाणयः। पूजयन्त्यहतां मूर्तीः सुरा इव सुरौकसि ॥१०॥ दिव्यरूपधराः केऽपि दिव्यनेपथ्यधारिणः । रमन्ते स्वेच्छया साक्षाद् मीनध्वजानुजा इव ॥१२॥ गजवाजिरथारूढाः केऽपि भ्राम्यन्ति भूषिताः । व्योममार्ग विमानस्था इव विद्याधरेश्वराः ॥१२॥ कान्ताभुजलताश्लिष्टशरीराः स्मरसोदराः । तिष्ठन्ति सुखिनः केऽपि लताश्लिष्टा इवाज्रिपाः ।।१३॥ वीश्यैतान् नागरान् स्वर्द्धिस्पर्द्धितत्रिदशेश्वरान् । कठः सद्यः समुत्पन्नसंवेगो ध्यातवानिति ॥१४॥ (सप्तमिः कुलकम् ) एभिः पूर्वभवे नूनमाचीर्ण दुस्तपं तपः । सहस्रंभरयो यस्मादीशा नागरा अमी ॥१५॥ प्राग्भवे न विमूढेन मया तेपेऽद्वतं तपः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy