________________
१२८
पार्श्वनाथचरित्रे
अथ श्रुत्वा विभोर्वाचं दध्यौ राजा प्रसेनजित् । करिग्यतु पितुर्वाक्यादेष कन्याकरग्रहम् ॥६२३॥ अतः सुतां समादाय गच्छाम्यहं सहामुना । इति ध्यात्वाऽभ्यधाद् विश्वराजं राजा प्रसेनजित् ॥६२४॥ त्वया सहाहमेण्यामि देव ! वाराणसी पुरीम् । अश्वसेननृपं द्रष्टुमुत्के स्तश्चक्षुषी मम ॥६२५॥ आमिति प्रतिपद्येतद् नाथस्त्रिजगतामथ । संमान्य विसस नं यवनं स्वपुरं प्रति ॥६२६॥ अथ प्रसेनजिद्राशा सकन्येनान्वितः प्रभुः । उत्सुकस्तातसेवायै वलति स्म कुशस्थलात् ॥६२७।। सुरासुरवधूवृन्दोद्रीयमानगुणावलिः । चिरं नन्द चिरं नन्देत्यूचानः खेचरैः स्तुतः ॥६२८॥ प्रणमत्पृथिवीपालमौलिमालाश्चितक्रमः । क्रमेण कलयामास पुरीं वाराणसी प्रभुः ॥६२९॥ (युग्मम् ) कचित् कर्पूरकस्तूरीपाथःशान्तरजोभरम् । वञ्चिच्चन्दनकाश्मीरद्रव्यैर्विन्यस्तहस्तकम् ॥६३०॥ कचिद् धूपघटीधूपधूमालीधूसरीकृतम् । कचिदुत्तम्भितानकध्वजधोरणिबन्धुरम् ॥६३१॥ क्वचित् प्रोत्तुङ्गितप्रौढतोरणावलिमालितम् । कचिच्चादञ्चितप्रोच्चमञ्चकैश्चारुचत्वरम् ॥६३२॥ क्वचिद् नृत्यत्पणस्त्रीणां श्रेणीभिर्विस्मयावहम् । क्वचिद् नानाविधस्फूर्जत्तूयैरुद्गानमन्जुलम् ॥६३३॥ कचिद् दुन्दुभिनिर्धाषप्रारभारबधिरीकृतम् । क्वचिद् नानाविधस्फूर्जत्तूर्यवर्यरवाकुलम् ॥६३४॥ कचिदाशीर्भणबन्दिवृन्दकोलाहलाकुलम् । स्वं पुरं प्राविशत् स्वामी भूस्वामिविहितोत्सवः ॥६३५॥
(षड्भिः कुलकम् ) अश्वसेनः सुतं प्रीत्या सम्भाष्य वचनैः शुभैः। विससर्ज निजावासे गन्तुं, नत्वा प्रभुर्ययौ ॥६३६॥ गजवाजिमणिस्वर्णमुक्ताधं प्राभृतं सृजन् । अथ प्रसेनजित् काशिदेशाधीशं ननाम सः ॥६३७॥ उपदादानपूर्व च निवेश्य वरविष्टरे । वााग्भः सौहार्दहृद्याभिरवादीदश्वसेनराट् ॥६३८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com