SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः। मत्स्वामी मन्मुखेनेदं त्वामाज्ञापयतीत्यसौ ॥५७३॥ एनं प्रसेनजिद्भूपं मुञ्च दुर्गनिरोधतः। अयं हि पूज्यमत्तातचरणौ शरणं श्रितः ॥५७४॥ इयता हि गतं नास्ति किञ्चनापि तवाधुना। विमुच्य विग्रहं याहि निजं नगरमञ्जसा ॥५७५॥ कर्णाभ्यण्णं प्रसर्पद्भिर्दूतोक्तैरिति वाग्भरैः । ववृधेऽस्याधिक क्रोधो वनवन्हिरिवेन्धनैः ॥५७६॥ दष्टोष्ठसंपुटो भस्त्रीकृतघ्राणोऽरुणेक्षणः । सोऽब्रवीद् वचनं क्रोधात् क्रोधोद्गारमिवापरम् ॥५७७॥ यमाहूतोऽसि रे दृत ! यदेवं प्रलपस्यदः। न मां जानासि शत्रुस्त्रीवैधव्यविधये गुरुम् ॥५७८॥ कः पावकुमारक्षीरकण्ठः शठशिरोमणे!। को वाश्वसनो यः कामं प्रकोपयति मामिति ? ॥५७९॥ अथवा नानयोदोषो बाल्यवार्द्धकधारिणोः। विजृम्भते मतिः पुसा न बाल्ये न च वार्द्धके ॥५८०॥ रे रे दूत ! दुराकूत ! वैरभागसि भर्तरि । यदेवं तद्गुणान् बूषे भत्कोपज्वलनेन्धनम् ॥५८६॥ नूनं कश्चित् त्वयाऽकारि निजभनुरुपद्रवः । तद्रुषा प्रेषितोऽस्यत्र यमस्येव निकेतने ॥५८२॥ त्वमवध्योऽसि दूतत्वादतो गच्छ गतत्रप!। इत्युक्त्वा विरते तस्मिन् स दूतः पुनरूचिवान् ॥५८३॥ अरे यवन ! किं तेऽस्ति यियासा यमवेश्मनि ?। भूतार्त्त इव पिङ्गाक्षो यदेवं वक्ष्यऽसाम्प्रतम् ॥५८४।। कस्त्वं श्रीपार्श्वकुमारपुरः पुरुषकीटकः । वेतनात्तमिवाशेषं त्रैलोक्यं यस्य किङ्करः ।।५८५॥ कृपया मन्मुखेनेदं सोऽवदद् भवतो हिंतम् । पयःपानमिवाहेस्तद्विपरीतं तवाऽभवत् ॥५८६॥ रे वराक । दुराधमावाशासीजीवितं निजम् । शरणौ पार्श्वनाथस्य चरणौ शरणीकुरु ॥५८७॥ एवं ब्रुवाणं संदेशहारकं तं निरङ्कशम् । उदायुधा भटास्तस्य मारणायोपतस्थिरे ॥५८८॥ यावत् तं मुष्टियष्टयाद्यैः प्रहरन्त्येतद्भटाधमाः । तावइ देव इवावादीद् धीसखः कोऽपि धीनिधिः ॥५८९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy