________________
चतुर्थः सर्गः ।
कियन्मात्रं स पार्श्वो यः परिणेता प्रभावतीम् ॥५४०॥ मयि सत्युग्रदोर्दण्डाखण्डविक्रम दुर्धरे ।
कथं दास्यति चान्यस्मै कन्यां सोऽपि प्रसेनजित् ॥५४१ ॥ कन्यामात्मकृते तस्मात् तावत् तां मार्गयाम्यहम् | पश्चात् तदनुसारेण करिष्येऽहमुपक्रमम् ॥५४२ ॥ अर्थिनामर्थिता वीरहीराणां दोर्बलं बलम् । नाहमस्मि किञ्चास्मि सुभटः सुभटाग्रणीः ॥५४३॥ अतः का मार्गणा तस्य पुरस्तात् मार्गणोचिता ? | जित्वा प्रसेनजिद्भूपं स्वयं लास्याम्यहं कनीम् ॥ ५४४ ॥ चिन्तयित्वेति यवनाधिपतिर्मानिनां पतिः । उत्कटैः कटकैः साकमागात् पुरं कुशस्थलम् ॥५४५॥ ततो दुरात्मना तेन स्वकीयैः प्रबलैर्बलैः । वेष्टितं तत् पुरं भूमिरिव पाथोभिरन्धिना ॥५४६ ॥ द्वारादियन्त्रणापूर्व दुर्गरोधोऽभवद् भृशम् ।
दुः : साध्ये तेन जज्ञाते गमनागमने पुरे ॥५४७॥ तेन प्रसेनजिद्राज्ञा प्रेषितो निरगात् पुरात् । अहं पुरुषोत्तमाख्यो मन्त्रिसागरदत्तभूः ॥५४८॥ आगामहमिहाख्यातुं वृत्तान्तं भवतः पुरः । अतः परं यथाशक्ति देवकार्यस्त्वयोद्यमः ॥५४९ ॥ एवं निशम्य तद्वार्त्तावातूलैरतुलैस्तदा । क्षमाक्षमारुहः क्षमाभुजोऽस्याऽभज्यतः दूतम् ॥५५०॥ रुपा परुषवाग् रोषारुणाक्षः क्ष्मापतिर्जगौ । निग्रहानुग्रहौ गत्वा करिष्येऽहमसौ तयोः ॥५५१॥ इत्थमुक्त्वाऽरिहृच्छाणोत्तेजितासिः क्रुधोद्धुरः । प्रयाणभेरीभोङ्कारमकारयदिलापतिः ॥ ५५२ ॥ ज्ञातोदन्तः समायातः पार्श्वः पार्श्वे पितुद्रुतम् । प्रोचे चाकस्मिकः कोऽयं तातपाद ! रणोद्यमः ? ॥५५३॥ पाणिना दर्शयंस्तं च पुरुषं पुरुषोत्तमम् ।
सर्वो तत्कथितां वार्ता जगदे जगतीपतिः ॥ ५५४॥
तनिशम्य पुनः पार्श्वोऽभिदधे धरणीधवम् । नृकीटे यवने तस्मिन् कोऽसौ तात ! तवोद्यमः ? ॥ ५५५ ॥ किं वा मृणालिनीनालोन्मूलने सुरसिन्धुरः । कुर्वन्नुपक्रमं श्लाघामुपयाति कदाचन ? ॥ ५५६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१२३.
www.umaragyanbhandar.com