________________
पार्श्वनाथचरित्रे
किंकरीकृतत्रैलोक्यः कमलः कमलेक्षणः । परिणेष्यति मां किं स सा प्रलापमगादिति ॥ ५२४ ॥ गल्लविन्यस्तहस्ताभ्यां निश्वासोष्णैर्हगम्बुभिः । अङ्गिकामार्द्रयामास साऽङ्गनाऽनङ्गविह्वला | ५२५।। अङ्गुल्यग्रेण लिखन्त्याः क्षोणीं स्रस्तैः शिरोरुहैः । छन्नं तस्या मुखं राहुग्रस्तचन्द्र इव व्यभात् ॥५२६॥ तस्या वपुषि सञ्जातस्तापः शोषितचन्दनः । अन्तर्ज्वलितविरहानलादिव समुत्थितः ||५२७|| वपुः प्रतिपदुद्यातचन्द्रलेखासखं कनी । दधाना मेने शिरीषशय्यामग्निमयीमिव ॥ ५२८|| कृतं भुक्तं स्थितं यातमजानाना च्युतस्मृतिः । स्तब्धदृक् शालभञ्जीव याऽस्थात् कम्ब्वावलम्बिनी ||५२९ ॥ कामं कृशाङ्गी निश्वासोश्छ्वासधूसरिताधरा । हुंकारैरुत्तरं चक्रे सखीभ्यः सा जडत्वभृत् ॥५३०|| स्मरन्ती पार्श्व पाश्वेति सर्वत्राऽरतिभाक् कनी । अपतत् कृत्तशाखेव मूच्छिता सती भूतले ॥ ५३१ ॥ मूर्च्छयोश्वासनिश्वासौ प्रकुर्वती कुमारिका । अभिषिक्ताऽम्भसा रम्भाव्यजनैश्च सखोजनैः ||५३२|| वर्याभिरुपचर्याभिश्छिन्नमूर्च्छा रुरोद सा । मंक्षु क्षामाक्षरं क्षामोदरी मन्मथकिंकरी ||५३३|| कामेनैवान्तिमावस्थां गतप्रायामुदीक्ष्य ताम् । तत्स्वरूपं जगौ राज्ञः पुरस्तात् तत्सखीजनः ॥५३४|| नृपोऽप्याकर्ण्य तां वार्त्ता दध्यौ विधुरितो हृदि । संयोगः कथमनयोर्भाव्यमाहरयोरिव १ ॥५३५|| कृतं कृताभिश्चिन्ताभिरेताभिर्मेऽहर्निशम् । स्वयंवरां वरायैनां प्रेषयिष्याम्यहं सुताम् ॥५३६॥ इत्यमुं निश्चयं राज्ञः समाकर्ण्य सखीजनः । तदुक्तिभिर्मुदं चक्रे प्रभावतेर्वचोऽतिगाम् ||५३७ तद्वचोभिः सुधाधामधामधन्यैः प्रभावती । सिक्ता मेघेर्जलौघैर्भूरिव क्षणमुदश्वसत् ||५३८॥ इतश्चास्तीह कलिङ्गाधीशो यवनभूपतिः । लोकोक्त्या सोऽथ शुश्राव स्वरूपमिदमादितः ॥९३९॥ सभायां भ्रकुटीं बिभ्रद् बभाषे सोऽरुणेक्षणः ।
१२२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com