________________
चतुर्थः सर्गः। श्रीहस्तिन्या इवालानस्तम्भावुत्तम्भितावुभौ ॥४०८॥ स्निग्धौ च सौष्ठवोत्कृष्टौ पुष्टास्थी शोणिमाड़ितौ । शस्तरेखा प्रभोः पाणी दर्पणाविव रेजतुः ॥४०९॥ अङ्गष्ठौ सौन्दर्योत्कृष्टौ शोणितौ यवराजितौ । अभातां विश्वसाम्राज्यशाखिनः पल्लवाविव ॥४१०॥ सरलाः सूक्ष्मपर्वाणः शोणा अङ्गलयो बभुः। मनाग मनाग विनिर्यान्तः कल्पद्रणामिवाडुराः ॥४११॥ नखाः स्निग्धतमा उर्ध्वशिखाः शोणा व्यभुर्विभोः । आनुपूर्वीस्थयोर्भव्यदलानीव कराब्जयोः॥४१२॥ अशोभिष्ट जिनाङ्गष्ठप्रान्तमध्याद्यपर्वसु । यवराजी समुप्तेव विवाहाय जगच्छूियाम् ॥४१३॥ ग्रीवा गुणिगुरोर्लध्वी वर्तुला मांसमे दुरा। दधौ प्रोत्फुल्लकमलकोशपृष्ठविलासताम् ॥४१४॥ वर्तुलं वदनं पूर्णमण्डलेन्दुसहोदरम् ।। चक्रे विश्वत्रयस्वान्तवीचिमालिसमुन्नतिम् ॥४१५॥ कपोलफलको त्वल्पौ स्निग्धावुन्नतिशालिनौ । व्यभातां त्रिजगद्भर्तुरासने इव वाश्रियोः ॥४१६॥ स्कन्धावलम्बिनौ लम्बो मध्यावर्ती जगत्पतेः। श्रवणो बिम्रतुः शोभालीलाऽऽन्दोलाविलासताम् ॥४१७॥ अधरीकृतबिम्बे तदधरबिम्बे च बिभ्रतुः। मुखद्युतिसरित्तीरे विद्रुमाङ्करविभ्रमम् ॥४१८॥ द्वात्रिंशत्कुन्दकलिकाकारा दन्ता जगद्गुरोः । नासावंशोऽपि सरलोन्नतो दीपशिखोपमः ॥४१९॥ प्रत्यग्रपल्लवप्राया मृदुला रसना विभोः । द्वादशाङ्गागमोत्पत्तिनिदानमनिरर्थकम् ॥४२०! दृशौ कर्णान्तविश्रान्ते प्रान्तरक्ते विरेजतुः । भ्रुवावपि भुवो भर्तुः श्यामले कुटिले शुभे ॥४२१॥ भालस्थलमशोभिष्ट विशालं त्रिजगत्पतेः। स्वसौष्ठवेनाभिभवदष्टमीशशिन: श्रियम् ॥४२२॥ केशाश्चकासिरे विश्वमूर्धन्यस्यास्य मूर्धनि । श्यामलाः कुञ्चिताः श्लक्ष्णाः कलापा इव केकिनः ॥४२३।। सावर्ते वृत्तमुत्तुङ्गमुष्णीष नाथमूर्धनि ।। चैत्योपरि स्थितशातकुम्भकुम्भाश्रयं दधौ ॥४२४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com