________________
११३
चतुर्थः सर्गः। लाल्यते स्म जगन्नाथः स्वयमुप्त इवाश्विपः ॥३७५॥ धात्रीणामिव भूपानामङ्कादडूंच संचरन् । बालेन्दुरिव बालोऽपि स्वाम्यभूद् नयनोत्सवः ॥३७६।। सुधां सुधाशनाधीशन्यस्तामङ्गुष्ठगां विभुः। क्षुधोदये पपौ कूपकुल्योदकमिव दुमः ।।३७७।। स्तनंधयोऽपि हि स्वामी न स्तन्यं धयति स्म सः । लोकोत्तरत्वमात्मीयं सूचयन्निव शैशवात् ॥३७८॥ सर्वासामपि धात्रीणां तासां चाप्सरसामिव । भर्तुर्भक्तौ विवादोऽभूदहंपूर्विकया महान् ॥३७९॥ सोऽपश्यदुपरिन्यस्तं प्रभुः श्रीदामकन्दुकम् । म्लानिर्माऽस्येति दृक्पातपीयूषैः प्लावयत्रिव ॥३८०॥ माणिक्यस्वर्णे निर्वर्ण्य प्रसुप्तः पालने प्रभुः । अपश्यदूर्ध्वमपरदृशा सम्भावयनिव ॥३८१॥ भ्रेजाते कुण्डले शक्रन्यस्ते ते पार्श्वयोः प्रभोः । बिम्वे किं युगपत् पूर्वापरयोः पुष्पदन्तयोः? ॥३८२॥ स्वेदामयमलैर्मुक्तं सौरभ्याद्भुत्यभासुरम् । आद्यसंहननं लोके नेतुर्वपुरशोभत ॥३८३॥ भर्तुः श्वासः समुद्भिन्नाम्भोजसौरभ्यसोदरः । सात इव हृत्स्थायिशुक्ललश्याब्जिनीपुटात् ॥३८४॥ असृग्मांसे विभर्हिरहासहारानुसारिणी । आवपुःस्थसितध्यानपिण्डर्धवलता इव ॥३८५॥ अगोचरो दृशां भर्तु हाराहारयोर्विधिः । आच्छादित इव भुवनोत्तममाहात्म्यवाससा ॥३८६॥ चतुर्भिरित्यतिशयः सहोत्थैर्भगवान् व्यभात् । उद्यानैर्भद्रशालाद्यैरिवामरमहीधरः ॥३८७॥ शनैः शनैर्जगन्नाथः पादौ मण्डयति स्म सः । भूभारभङ्गरग्रीवभोगिभारभयादिव ॥३८८॥ किंचिश्चंक्रमणं चके भूषयन् प्राङ्गणं प्रभुः । अनुस्वाकूलिनीकूलं मरालस्येव बालकः ॥ ३८९ ॥ भ्रमतोऽभाजगभर्तुः क्रमयोर्घघरध्वनिः। गत्या जितो मरालौघः स्तुवन्निव पदान्तिषत् ॥३९०॥ पांशुक्रीडां च चिक्रीड डिम्भैः साधं धियांनिधिः । जिनाः पित्रोः प्रमोदाय पांशुक्रीडाकृताशयाः ॥३९१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com