________________
१११
चतुर्थः सर्गः। ददौ भूरितरं किं हादेयं तादृशजन्मनि ? ॥३४२॥ समानत्वेन संमान्य प्रापिताः पदमुच्चकैः । वक्तारो जन्मनः सूनोः सवेऽप्येतेन भूभुजा ॥३४३॥ संसारात् सर्वजीवानां मोक्षमेष करिष्यति । युक्तं तजनने राशा बन्दिमोक्षो व्यधायि यत् ॥३४४॥ सतां शिरसि नाथोऽसौ करमुक्तिं करिष्यति । इतीव भूभुजा चक्रे करमुक्तिः पुरेऽखिले ॥३४५॥ सुगन्ध्युदकसम्भारैरभितो निखिलं पुरम् । अभिषिक्तं प्रवर्षद्भिर्घनैरिव शनैः शनैः ॥३४६॥ प्रकरः पञ्चवर्णानां कुसुमानामशोभत । अवतीर्णः पुरेऽमुष्मिन् पुष्पकालः किमगवान् ? ॥३४७n द्विपथे त्रिपथे राजपथे बहुपथे तथा । उदश्चिता मञ्चकाश्च विमाना इव नाकिनाम् ॥३४८॥ उत्तम्भिता चत्वरेषु प्रोञ्चस्तोरणधोरणिः । प्रादुर्भूतेव हल्लेखलेखावल्लीषु मञ्जरी ॥३४९॥ भद्रकुम्भाश्च संमुक्ताः स्थाने स्थाने पुरेऽखिले। बहुरूपैर्जगन्नाथं द्रष्टुमिन्दुरिवाययौ ॥३५०॥ विहिताः कौङ्कमा हस्ताश्चत्वरे चत्वरे पुरे । कृतकृत्य इवाभ्यागाद् भूरिरूपैनवांशुमान् ॥३५१॥ दुकूलैः कलिताः प्रौढा मण्डिता मण्डपाः पुरे । किञ्चिद् गगनता नम्राः शारदीना इवाम्बुदाः ॥३५२।। स्वस्तिकृत् स्वस्तिकश्रेणी मौक्तिकैः सूत्रिता पुरे। अर्हजन्मोत्सवं द्रष्टुमिवागादुडुमण्डली ।।३५३।। ननृतुः केऽपि वंशाग्रे आह्वयन्त इवामरान् । केचिश्च मण्डलीभूय पुरुषा रासकान् जगुः ॥३५४॥ स्थाने स्थाने व्यधुर्नृत्यं भूरिशः पण्ययोषितः । उजगुर्धवलान्युश्चैः सधवाः कुलसुभ्रवः ॥३५५।। वेणुवीणामृदङ्गादिवादित्रध्वनिबन्धुरम् । अशोभिष्ट प्रमोदाय तत्पुरं रङ्गभूरिव ॥३५६॥ स्तम्भा उत्तम्भिता भूरिमौक्तिकश्रेणिहारिणः । तारालीमालिता मेरुगिरिदन्ता इवोन्मुखाः ॥३५७॥ बभणुर्भूरयो भट्टाः पेठुर्मङ्गलपाठकाः। . उपाडवा वेदानाशिषो बन्दिनो जगुः ॥३५८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com