________________
१०६
पार्श्वनाथचरित्रेउन्मुखाः क्षितिगाः कुम्भा अम्भोभिः सम्भृता व्यभुः । नैकीभूता इवाभ्येयुः कुम्भाः सौधा रसातलात् ॥२६॥ अम्मकुम्भान्तरालेऽम्भस्तद्भाति स्मामलद्युति । अर्हन्मुखजितेश्चन्द्रैः करौघ इव ढौकितः ॥२६१॥ आरणाच्युतकल्पेशः समं स्वैरमरैरथ । साष्टसहस्रकलशानादाद्रोमाञ्चकञ्चुकः ॥२६२॥ वक्षःस्थलस्थितैः कुम्भस्तै रेजुस्ते सुधान्धसः। तितीर्षव इवापार संसारमकराकरम् ॥२६३|| भगवन्तं स्नपयितुमच्युतेन्द्रो मनागथ । कलशानानयामास मौलि दास इव प्रभोः ॥२६४॥ तस्मिन्नवसरे केऽपि वादयामासुराशु च । हस्ताभ्यामविहस्ताभ्यां तालका इव नाकिनः ॥२६५॥ केचिदास्फालयन् कांस्यतालानुत्तालपाणयः । मरालाः कमलानीवाऽनिललोलतनूरुहः ॥२६६॥ केचिदुत्ताडयामासुर्दुन्दुभीन् मधुरध्वनीन् । केचिद् मुखरयामासुर्भेरी गम्भीरझाकृतिम् ॥२६७॥ पाथःसम्पूर्णपाथोदनादलक्ष्मीमलिम्लुचान् । मृदङ्गान् वादयामासुः केऽपि मार्दङ्गिका इव ॥२६८॥ केऽपि गम्भीरनि?षमुखरीकृतदिग्मुखान् । आनकांस्ताडयामासुः कपोलानिव दन्तिनाम् ॥२६९॥ मन्द्रमापूरयामासुः केऽपि शङ्खाननेकशः। त्रिगुणीकृतप्रावीण्या वीणाः के चिदवादयन् ॥२७॥ एवं दिवौकसो नानाविधातोद्यान्यवादयन् । निनादै रोदसीरन्ध्र समपूर्यन मुदन्विताः ॥२७१॥ जय नाथ ! जगन्नाथ ! धर्ममर्मप्रकाशक !। वैतालिका इवेत्यूचुश्चारणश्रमणा अपि ॥२७२॥ नव्यकाव्यादिभिः श्राव्यां स्तुतिं कृत्वाऽच्युतेश्वरः । सदेवो नामयामास कुम्भांस्तानुपरि प्रभोः ॥२७॥ लुठन्तस्तेऽथ सलिलकलसाः शिरसि प्रभोः । रेजुरअनशैलस्योपरि वर्षद्घना इव ॥२७४॥ निःसरन्त्यश्च कुम्भेभ्यो धारास्ता अम्मसां बभुः । मन्दराद्रिगुहास्येभ्यः पतन्तो निझरा इव ॥२७॥ निष्पतन्त्यो व्यभुनीरधारास्ता भगवत्पदोः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com