________________
पार्श्वनाथ चरित्रे
प्रणनाम ततः शक्रस्तीर्थेशं सममम्बया । न भक्तौ पौनरुक्त्यं हि तादृशां भक्तिशालिनाम् ॥ २२७॥ सविधायाञ्जलिं मूर्ध्नि मूर्धन्यस्त्रिदिवौकसाम् । भगवन्मातरं वामादेवीमित्यस्तवीदथ ॥२२८॥ चिरञ्जय जगन्मातर्जगदाधारधारिके ! | त्वमेवासीह निःशेषपुत्रिणीनां शिरोमणिः ॥ २२९ ॥ धन्याऽसि कृतपुण्यासि त्वमेव धरणीतले । ययाऽसौ सुषुवे सूनास्त्रिला की वरदीपकः ॥ २३०॥ इति स्तुत्वा जगन्नाथजननीं निर्जराग्रणीः । प्रोचिवानिति तां मातर्भेतव्यं न त्वयाऽनघे ! ॥ २३९ ॥ प्रथमस्वर्गदम्भोलिकरस्त्वत्सूनुकिंकरः । अर्हजन्मोत्सवं कर्तुमिहाऽगां देवि ! साम्प्रतम् ॥२३२॥ उक्त्वेति वासवो देव्या अवस्थापनिकां ददौ। कृत्वा च भगवद्रूपं विम्बं तत्संनिधौ न्यधात् ॥२३३॥ विधाय पञ्चधाSSत्मानं ततः स त्रिदशेश्वरः । एकरूपेण पाणिभ्यां भगवन्तमुपाददे ॥ २३४॥ रूपेणैकेन दधे च मूर्ध्नि च्छत्रं जगत्पतेः । दधावुभाभ्यां रूपाभ्यां चामरे चामरेश्वरः ॥ २३५ ॥ रूपेणैकेन बिभ्राणो वज्रं वज्रधरः पुनः । गच्छति च सह द्वाःस्थ इव स्वामिपुरः स्वयम् ॥ २३६ ॥ भक्तैर्भगवतां भक्तिर्विधेया स्वयमेव हि । एवं स पञ्चभी रूपैरात्तार्हन् मेरुमभ्यगात् ॥ २३७॥ काञ्चनाचलचूलायाः परितः पाण्डुकं वनम् । योजनानां सहस्रेण विस्तीर्ण सह चूलया ॥ २३८॥ चूलिकादक्षिणेनास्ति सुमनोहारि तद्वनम् । पृथुलं योजनैश्चतुर्नवत्या च चतुःशतैः ॥ २३९ ॥ चतुर्भियोजनैः पञ्चशतैश्वोश्चत्वविस्तरे । पृथुला सार्धद्विशतैरधिज्यधनुराकृतिः ॥ २४०॥ तत्रातिपाण्डुकम्बला शिलामलमयूखभाग् । अस्ति दक्षिणदिग्भागे रत्नसिंहासनान्विता ॥ २४१ ॥ ( युग्मम् ) अस्यैव जम्बूद्वीपस्य याम्यार्धभरतोद्भवाम् । अर्हतां क्रियते जन्माभिषेकस्तत्र वासवैः ॥२४२॥ तस्मिन् सिंहासनेऽर्हन्तं विधायोत्सङ्गसङ्गतम् ।
१०४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com