SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ प्रस्तावः। र्जातिस्मृतिजननस्य, पुनरुपदेशदानेन तयोर्धर्मप्राप्तेश्च वाचोयुक्तिः। शान्ते उपप्लवे सन्दृश्य धर्मप्रभावं बहूनां व्रतादानस्य व्रतदायस्य च, अष्टापदं प्राप्य सर्वेषां यथास्थानगतेः, मरुभूतेस्तत्तदृतु. जन्यैस्तैस्तैः परिषदर्भावनापूर्व विहृतश्च वचनम् । कमठस्य मरु. भूतिवधेन तापसेभ्यो लोकभ्यश्च तिरस्कारस्य, आर्तध्यानेन मृत. स्य कमठस्य कुर्कुटाहिभवप्राप्तः, गृष्मकालागतेरतितृषार्तस्य मरु. भूतेर्हस्तिन एकस्मिन् सरोवरे निर्मग्नतायाः, तत्रागतेन कुर्कुटाहिना दष्टस्य पण्डितमृत्युना विपद्य मरुभूतद्धितीयस्वर्गलाभस्य, देवश. रीर-शृङ्गारवर्णनस्य, मरुभूतेर्जीवस्य देवत्वं प्राप्तस्य द्वाःस्थेन नामग्राहं सवर्णनं वाप्यादिदर्शनस्य, शय्योत्थायं प्रपठ्य पुस्तकं विधाय देवयात्रादिधार्मिकं कृत्यं मरुभूतेर्विविधभोगासेवनस्य, कुर्कुटाहेः पञ्चमावनिगमनस्य, वरुणाया अपि मृत्वा द्वितीयसंग यातायाः परस्परानुरागेण देवेन सम्मेलनस्य, तयोरितस्ततोविलासस्य चोक्तिः। द्वितीये सर्ग। पूर्वविदहस्थसुकच्छविजयस्य वैतात्यं भूधरम्, तत्स्थां तिलकां पुरीम् तद्राजंविद्याधरं विद्युद्गतिनामानम् विद्युद्गतिपत्नोंतिलकावतींच वर्णयित्वा तिलकावतीकुक्षी स्वर्गाद मरुभूतिजीवस्य च्यवनम्, तज. न्मोत्सवम्, किरणवेगेति नामविहितिम्. बाल्ये तल्लालनम्,यौवने पद्मा. चत्यासह विवाह राज्यं समय विद्युद्गतीक्षास्वीकारम,राज्यं विदधतः किरणवंगस्य किरणतेजोनाम्नः पुत्रस्योत्पत्तिम्, सुरगुरुनामकस्य गुरोरागतिम् ,धर्म श्रुत्वा किरणवेगस्य प्रव्रज्योपादानं च व्याकृत्य गीतार्थीभूय किरणवेगमहात्मनः पुष्करद्वीपस्य वैताव्य गतेः, कुर्कुटाहिजीवस्याप्युदधृत्य नरकावनेस्तत्रैव सर्पभवनस्य, तत्सर्पदष्टस्य मुने ानपूर्व पञ्चत्वमाप्य द्वादशे कल्पे यानस्य, योधनालडकृतस्य च देवभवे समययापनस्य व्याहरणम् । दवाग्निदग्धस्य सेरीसृपस्य धूमप्रभानाम्नि नरकावनौ यानम्, सुगन्धिविजयस्य शुभंकराया नगर्या वज्रवीर्यस्य राशः लक्ष्मवित्याश्च तत्प्रियायाः वर्णनम्, लक्ष्मीवतीगर्भे किरणवेगजीवस्य द्वादशात् स्वगादवतरणम् , तस्य वज्रनाम इति नामकरणम् , बङ्गदेशीयचन्द्रकान्तराजस्य विजयाह्वया कन्यया चोद्वाहः, वज्रनाभमातुलपुत्रस्य नास्तिकस्य कुबेरस्योपवज्रनाभमायन तस्य चैहिकविषयोपदेशः, तच्छ्रुत्वा गुरोरागममिच्छोर्वज्रनाभस्य मौनम् , लोकचन्द्रगुरोरागतिः, उभयोर्वन्दितुं मुनि यातिः, मुनेरनू Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy