________________
चतुर्थः सर्गः । पञ्चवर्णसमाकीण भ्रमभ्रमरभासुरम् । लसत्परिमलोद्दाम दाम धन्वेव मान्मथम् ॥४६॥ सम्पूर्णमण्डलो व्योमकमलातिलकोपमः। जगदानन्दिपीयूषपूर्णः पीयूषदीधितिः ॥४७॥ स्वीयांशुभिस्तमःस्तोमं स्फोटयन्नुल्बणद्युतिः । धर्मधुतिः सरोजालीमुकुलोन्मुकुलीकरः ॥४८॥ सुवर्णकिङ्किणीभ्रंणीक्वाणक्वणितदिग्मुखः । उद्दण्डदण्डतुण्डस्थो बर्हिवों महाध्वजः ॥४९॥ पुष्पमालार्चितः पूर्णः सलिलैमङ्गलैरिव । कलशः कलधौतीयः श्रियां शेवधिभूरिव ॥५०॥ क्रीडद्वन्द्वं चरद्वन्द्वं कलहंससमाकुलम् । लोलकल्लोलमुत्फुल्लप- पद्मसरः सरः ॥५१॥ मण्डितः पाण्डुडिण्डीरपिण्डैबिम्बैरिवैन्दवैः । क्षीरनीरनिधिः क्षीरनीरनीरन्ध्रमध्यभूः ॥५२॥ भगवद्वीक्षणायेवाऽऽगात् स्वामिविरहासहम् । विमानं रत्नराजिष्णु यस्माद् यातस्तदेव हि ॥५३।। जगत्यमाद्भिर्भगवत्प्रतापरिव पिण्डितः। प्रोत्तुङ्गश्चङ्गिमागाररत्नराशिरुदश्चितः ॥५४॥ शिखाभिः सम्मिलन्तीभिरुल्लिखन गगनस्थलम् । धूमध्वजश्च निधूमो मध्याह्नार्कसहोदरः ॥५५॥ दृष्ट्वा स्वप्नानिमान् स्पष्टान् तुष्टिपुष्टिप्रदिष्टकान् । पद्मिनीव प्रबुद्धा सा वामादेवी प्रकर्षभाक् ॥५६॥ अर्हत्प्रभावतः पाकशासनाः प्रथमं मुदा । समाहूता इवाभ्येयुर्धाम्नि वामाङ्किते तदा ॥५॥ प्रणम्य भगवन्तं तं भगवजननी पुनः। उक्त्वा स्वप्नार्थमस्वप्ननाथा जग्मुर्यथाऽऽगतम् ॥५८॥ सम्प्राप्तैस्तादृशैः स्वप्नैः संतुष्टा मङ्गलैरिव । साऽप्युदस्थादुपपादशयनादिव देवता ॥५९॥ उत्थाय शयनोत्सङ्गाद् मरालीव कजोदरात् । मन्दं मन्दं जगामैषाऽश्वसेनालङ्कृतं गृहम् ॥६०॥ असंमान्तीं मुदमिवाद्विरन्ती गिरमादरात् । सा पति बोधयामास मन्थराक्षरवादिनी ॥६१॥ अश्वसेनोऽपि तद्वाचमाकर्ण्य कर्णोपवार्णिकाम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com