________________
चतुर्थः सर्गः ।
यदभ्यण्णंमविश्रान्ता वहन्ती देववाहिनी । सङ्ख्यानमिव परितः शुशुभे नगरश्रियः ॥ १३ ॥ यत्साले नीलरत्नोत्थरोचिषां चारुवीचिभिः । तीर्थ गङ्गाप्रवाहांऽभूत् कालिन्दीसङ्गमादिव ॥ १४ ॥ यत्साले नीलरत्नोत्थरोचिषां चारुवीचिभिः । जरेव पलितीकर्त्तुं तत्केशानीर्षयाऽस्पृशत् ॥ १५ ॥ यत्स्त्री चन्दनकाश्मीरकरम्बितपयोधरा स्वः सिन्धुरभर्त्रा सन्ध्या नवोदेव मुदेऽधिकम् ||१६|| यत्र चैत्यस्थिताश्चित्रपुत्रिका भान्ति भूरिशः । स्वर्गेऽमान्त्य इवात्रेयुर्देव्योऽनिमिषचक्षुषः ॥१७॥ यत्र चैत्यस्थिताः शातकुम्भकुम्भा विभान्त्यलम् । उदिता भानवः सर्वे कैलासाद्विवरेष्विव ॥ १८ ॥ वीक्ष्येन्दोर्मण्डलं यत्र रत्नकुट्टिमसंस्थितम् । पाणीन् क्षिपन्ति पद्माक्ष्यो दन्तताडङ्कशङ्कया ॥ १९ ॥ सौधकुट्टिमसंक्रान्तांस्तारकान् वीक्ष्य बालिकाः । मुह्यन्ति पतितस्फारहार मौक्तिकशङ्कया ॥२०॥ यत्र स्फटिकप्रासादे रात्रौ रात्रीश्वरोदये । दीप्रैः प्रदीपकैरेव लक्ष्यते सौधधोरणी ॥ २१ ॥ तत्र प्रबलाश्वसेनोऽश्वसेनोऽजनि भूपतिः । यत्सेना वैरिवनितावैधव्योद्वाहधूर्वहा ॥ २२ ॥ तत्प्रतापोऽभवद् भानुभासुरो भानुमानिव । विनिद्रीकृतसत्पद्मः कुमुदौत्सुक्यकृद् यतः ॥२३॥ यत्प्रतापप्रदीपेऽभूदेतदस्वल्पकौतुकम् । प्रकाशोऽभूत् सुहृद्गेहेऽसुहृद्गेद्दे च कालिमा ॥ २४ ॥ यत्प्रतापोऽजनि प्रौढः प्रत्यग्रः कज्जलध्वजः । शत्रुस्थानेऽञ्जनाकारोऽभूत् तत्स्नेहं पिवन्नपि ॥२५॥ यत्प्रतापस्तपस्वी च प्रापेमां शक्तिमद्भूताम् दाहादाही समं चक्रेऽसुहृदां सुहृदां हृदि ॥२६॥ राज्ञस्तस्याभवद् राज्ञी वामाऽवामा जनोत्तमा । या वामलोचना जज्ञे वामा दुष्कृतकर्मणि ॥ २७॥ यां निर्वर्ण्य सुपर्वाणः स्वः स्त्रैणमभजन्न हि । नाऽक्ष्णोरप्येकलीलाऽस्यानिमेषजनिताऽजनि ॥२८॥ जितविश्वत्रयौपम्यां द्रष्टुं यद्रूपसम्पदम् ।
I
Shree Sudharmaswami Gyanbhandar-Umara, Surat
९१
www.umaragyanbhandar.com