SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। सिंहोऽपि हिंस्रधौरेयः पर्यटनटवीतटे । संजहे बहुशः सत्त्वान् संहार इव निर्दयः ॥२१॥ संहत्यानेकशः सत्त्वान् पारीन्द्रः पापपूरितः। विपद्य श्वम्रमदभ्रव्यथं तुर्यमुपेयिवान् ॥६२२॥ शीतोष्णयातनास्तत्रोपभुज्य बहुशश्चिरम् । उद्ववृते हरिर्जीवश्चतुर्थनरकादथ ॥६२३॥ तिर्यग्योनावनेकांश्च स भ्रान्त्वा दुःखिनो भवान् । कापि शाखापुरे दुस्थद्विजारात्मभूरभूत् ॥६२४॥ स्वर्णबाहुयतेरात्मा प्राप्यास्प्नत्वमुत्तमम् । तैस्तैर्नवै गैरभूत् सुखस्यैकनिधानभूः ॥६२५॥ गान्धर्वीणकलाकेलिविज्ञगान्धर्वधोरणेः । ध्वोनैरप्रीणात् नाकी कौँ कर्णरसायनैः ॥६२६॥ नभिर्विविधपुष्पौधैर्गुम्फिताभिः सुगन्धिभिः । कण्ठन्यस्ताभिरस्वतः पुष्पकाल इवाशुभत् ॥६२७॥ हारकेयूरकोटीरपादुकाकुण्डलादिभिः । मण्डित तद्वपुरभाद् भूषणैर्लक्षणैरिव ॥६२८॥ विमानदीर्घिकोद्यानसरसीताण्डवादिषु । प्रापतुः फलमात्मीयं नियुक्त तद्विलोचने ॥६२९॥ दिव्यैराहारसम्भारैरीहातस्तृप्तिकारिभिः । प्रीणाति स्माऽद्विजिह्वः स जिह्वां वल्लीमिवामृतैः ॥६३०॥ कदाचित् कल्पगा अर्हत्प्रतिमाः प्रत्यपूजयत्। सुमनाः सुमनोमुख्यः सुमनःस्रम्भिरादरात् ॥६३२॥ कदाचित् स्वर्णशैलादिशैलेष्वानर्च चारुभिः । चन्दनायैश्चिरं जैनीः शाश्वती प्रतिमा मुदा ॥६३२॥ नन्दीश्वरादिद्वीपेषु कदाऽप्यानन्दमेदुरः। चक्रेऽहत्प्रतिमापूजां द्वात्रिंशद्बद्धनाटकैः ॥६३३n इति धर्मरतः शर्मभोगान् भुञ्जन्ननेकशः। भूयांसमपि कालं सोऽनैषीलशमिवामरः ॥६३४॥ श्रीस्वर्णबाहुनरकुजरराजराजी श्रीप्राणतत्रिदिवे देविविलासशाली। वामेयचारुचरिते द्विभवाभिरामः सर्गः समाप्तिमगमत् सुगमस्तृतीयः ॥३३५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy