SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ (८८) नरपतिजयचर्या । नगरे नागरं विष्ण्यं कृत्वादौ विलिखेत्ततः ॥ सौरिस्थाने भवेद्दुष्ट वेधस्थाने तथैव च ॥३९॥ इति द्वितीयकूर्मः ॥ ग्रामकूर्म समालिख्य ग्रामनामःपूर्वकम् ॥ पूर्ववद्यत्रगः सौरिमध्यादौ भंगमादिशेत् ॥ ४० ॥ इति नगरकूर्मचक्रम् ॥ क्षेत्रले क्षेत्रभान्यादौ कृत्वा कूर्म यथास्थितम् ॥ सौरिस्थाने विनाशः स्याज्जायते च महद्भयम्॥४१॥ इति क्षेत्रकूर्मचक्रम् ॥ अथ गृहकूर्मचक्रम् ॥ गृहकूम समालिख्य गृहद्वारमुखस्थितम् ॥ गृहनामःपूर्व तु कृत्वा वीक्ष्यं शुभाशुभम् ॥ ४२ ॥ गृहमध्यगतः सौरिः शोकसंतापकारकः ॥ द्वारे विद्युत्प्रदो ज्ञेयः पावके वह्निदायकः ॥४३॥ ज्ञेयो मृत्युप्रदो याम्ये राक्षसे राक्षसाद्भयम् ॥ वारुणे शुभदो ज्ञेयो वायव्ये शून्यताप्रदः ॥ ४४ ॥ अर्थलाभप्रदः सौम्ये शांभवे सर्वसिद्धिदः ॥ सौरिर्बलाधिको दुष्टः स्वल्पवीर्यः शुभावहः॥४५॥ समकालं पीडयेद्यत्र भानुजः कूर्मपंचकम् ॥ तत्र स्थाने महाविघ्नं जायते नात्र संशयः ॥ ४६ ॥ दुष्टस्थानगते मंदे कर्त्तव्यं तत्र शांतिकम् ॥ यदुक्तं यामले तंत्रे सर्वविघ्नविनाशनम् ॥ ४७॥ कूर्मचक्र महाचक्रं कथितं चादियामले ॥ त्रिकालविषयज्ञानं पाणिस्थं तेन जायते ॥४८॥ इति नरपतिजयचर्यायां स्वरोदये कूर्मपंचचाणि समाप्तानि ॥ नगरेति । देशकूर्मे देशनामात् त्रीणि मध्ये लिखेत् । अत्रापि कूर्मशिरः प्राच्याम् एवं नवविभागे देशेपि यत्रः सौरिस्तस्यां दिशि सप्त ईतयः संभवति । तस्यां दिशि ईतिपीडा स्यात् । अतिवृष्टिरनावृष्टिरित्यादि संभवति । यत्रस्थस्तस्माद्रेखा सन्मुख वेधयति । वेधस्थानेपि ईतयः संभवंति । अत्रापि पूर्ववत् । अतिशुभफलप्रदत्वेन गुरुं चिंतयेत् । गुरुणा वेधितस्य फलं शनेनं भवति । यदि गुरुर्बली भवति । उच्चस्वमित्रादिताभिवली चिंत्यः॥३९॥ इति द्वितीयकूर्मः। ग्रामकूर्ममिति ॥४०॥ क्षेत्रजेति ॥४१॥ गृहकूर्मोते ॥४२॥ ग्रहमध्यगत इति ॥४३॥ ज्ञेयो मृत्युरिति ॥४४॥अर्थलाभप्रद इति ॥४५॥समकालमिति । वृथिवीकू, मूले यो देशस्तत्रस्थः शनिः तस्यां दिशि मूलनक्षत्रं यस्य यस्य देशस्य तत्र देशमध्यस्थःमूलनक्षत्रग्रामस्थानयोः तत्रापि मध्यगतःसौरिः।मूलः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy