________________
जयलक्ष्मीटीकासमेता ।
( ८७ )
संस्थिताः ॥ पारावतं मरुत्कच्छमवंतीपूर्वमालवम् ॥ २७ ॥ पारासरं बर्बरं च द्वीपं सौराष्ट्रसैंधवम् ॥ जलस्थाश्च विनश्यंति स्त्रीराज्यं पुच्छपीडने ॥ २८ ॥ उत्तराषाढभत्रीणि पादे वायव्यगोचरे || गुर्जरा यामुनं च मरुदेशं सरस्वती ॥ २९ ॥ जालंधरं वराटं च वालुको दधिसंयुतम् ॥ मेरुशृंगं विनश्यति ये चान्ये कोणसंस्थिताः ॥ ३० ॥
आश्लेषा च मवेति ॥ २१ ॥ डाहली चेति ॥ २२ ॥ उत्तराहस्तेति ॥ २३ ॥ तापी भीमेति ॥ २४ ॥ स्वाती विशाखेति ॥ २५ ॥ पर्यली चेति ॥ २६ ॥ ज्येष्ठा मूलेति ॥ २७ ॥ पारासरं बर्बरं चेति ॥ २८ ॥ उत्तराषाढभत्रीणीते ॥ २९ ॥ जालंधरं चेति ॥ ३० ॥
शतभादित्रयं चैव उत्तरां कुक्षिमाश्रितम् ॥ नैपालं की काश्मीरं गूंजनं खुरसानकम् ॥ ३१ ॥ माथुरं म्लेच्छदेशश्च खशं केदारमंडलम् ॥ हिमाश्रयाश्च नश्यति देशा ये चोत्तराश्रिताः॥ ३२ ॥ रेवती अश्विनी याम्यं पादे ईशानगोचरे ॥ गंगाद्वारं कुरुक्षेत्रं श्रीकंठं हस्तिनापुरम् ॥ ३३ ॥ अश्वचकैकपादाश्च गजकर्णास्तथैव च ॥ विनश्यति च ते सर्वे शनावीशानगोचरे ॥ ३४ ॥ सौरिः स्वदेशगो यत्र तत्र यत्नेन रक्षयेत् ॥ परदेशस्थिते कुर्या - द्विग्रहं पृथिवीपतिः ॥ ३५ ॥ यत्रस्थः पीडयेत्तत्र वेधस्थाने तथैव च ॥ देशनामक्षगः सौरिभंगदाता न संशयः ॥ ३६ ॥ इति यामलीयस्वरोदये पृथ्वी कूर्मचक्रम् ॥ पृथ्वी कूर्मः समाख्यातः कृत्तिकादियमांतकः ॥ देशादिस्वस्वऋक्षादि वक्ष्ये कूर्मचतुष्टयम् ॥ ३७॥ देशनगरक्षेत्र गृहात्मकानि कूर्मचक्राणि ॥ पूर्ववच्चक्रमालिख्य देशनामर्क्षपूर्वकम् ॥ देशकूर्मो भवेत्तत्र यत्र सौरिस्ततः क्षयः ॥ ३८ ॥ इति देशकूर्मः ॥
शतभादित्रयमिति ॥ ३१ ॥ मथुरा म्लेछदेशश्वति ॥ ३२ ॥ रेवती अश्विनीति॥ ॥ ३३ ॥ अश्वचक्रेति ॥ ३४ ॥ सौरिः स्वदेशगेति ॥ ३५ ॥ यत्रस्थः पीडयति ॥ ॥ ३६ ॥ पृथ्वीकूर्ममिति ॥ ३७ ॥ पूर्ववच्चक्रेति ॥ ३८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com