________________
AN
AMA
जयलक्ष्मीटीकासमेता।
(८५) कूर्मचक्र प्रवक्ष्यामि यदुक्तं को
॥ कूर्मचक्रम्॥ शलागमे ॥ यस्य विज्ञानमात्रेण ज्ञायते देशविप्लवः ॥ ॥ १ ॥ यस्य शृंगैकदेशस्था देवास्त्रित्रिंशकोटयः ॥ सुमेरुः पृथिवीमध्ये श्रूयते दृश्यते न तु ॥२॥ तादृशाः पर्वताश्चाष्टौ सागरा द्वीपदिग्गजाः ॥ सर्वे ते विधृता भूम्या सा धृता येन तं शृणु ॥३॥ दंष्ट्रया सा वराहेण विधृता साधरा धरा ॥ मुस्ताखननतोयस्य शोभते मृत्तिकेव या ॥ ४ ॥ ईदृशोसौ महाकायो वराहः शेषमस्तके ॥ तस्य चुडामणेरूज़ संस्थितो मशकोपमः ॥ ५॥ एवंविधः स शेषोपि कुंडलीभूमिसंस्थितः ॥ कूर्मपृष्ठकभागेन पद्मतंतुरिवाबभौ ॥ ६ ॥ वपुःस्कंधशिरःपुच्छनखांघ्रिप्रभृतीनि च ॥ मानेन तस्य कूर्मस्य कथयामि प्रयत्नतः॥ शंकोः शतसहस्राणि योजनानि वपुः स्थितम् ॥ ७ ॥ तदर्धेन भवत्पुच्छं पुच्छाधेन द्विकुक्षिकम् ॥ ग्रीवा सायुतकोटीभिमस्तकं सप्तकोटिभिः ॥ ॥८॥ नेत्रयोरंतरं तस्य कोटिरेकप्रमाणतः ॥ मुख कोटिद्वयं तस्य द्विगुणेन च पादयोः ॥९॥ अंगुलीनां नखाग्रेषु योजनान्ययुतावधि ॥ १०॥
अथानंतरम् । कूर्मचक्रं व्याख्यास्यामि । कूर्मचक्रं प्रवक्ष्यामीति । सुगमम् ॥ १॥ अथ कूर्मचक्रस्य माहात्म्यं वक्तुं धराधराणां धारणमाह । यस्य शृंगैकेति ॥ २ ॥ तादृशाः पर्वता इति ॥ ३॥ दंष्ट्रया सा वराहेणेति ॥ ४ ॥ ईदृशोसाविति ॥५॥ एवंविधः स शेषोपीति ॥ ६ ॥ वपुः स्कन्धेति ॥ ७ ॥ तदर्धेनेति ॥ ८ ॥ नेत्रयोरिति ॥ ९॥ अंगुलीति ॥ १० ॥ एवं कूर्मप्रमाणं तु कथितं चादियामले ॥ तस्योपरि स्थिता तत्र सप्तद्वीपयुता मही ॥ कूर्माकारं लिखेच्चक्रं सर्वावयवसंयु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com