________________
( ८४ )
नरपतिजयचर्या
॥ १४ ॥ आधारऋक्षगः सौरिरनावृष्टिं करोति सः ॥ दुर्भिक्षं रौरवं घोरं प्रजामृत्युश्च जायते ॥ १५ ॥
सिंहासनगतो । सुगम एष श्लोकः ॥ ११ ॥ अथ येन प्रकारेणाभिषिक्तो राजा तेजस्वी भवति प्रजापालको भवति दिग्विजयी भवति तत्प्रकारमाह । तत्कालेंदुगते ऋक्षेति । राज्याभिषेकसमये तत्कालचंद्रस्थनक्षत्रं ज्ञात्वा आसनादिनक्षत्र निरूपणं कृत्वा नाडिकानिर्वेधनक्षत्रं तत्काले क्रूरपीडितरहिते राज्ञः पट्टाभिषेकं कुर्यादित्यर्थः । नृप आधारनाम यदा पट्टेभिषेचित इति । सामान्यं फलं परित्यजेत् । तथा च विजयकल्पलतायाम् “ धिष्ण्ये पापखगव्यधेन रहितं तत्काल चंद्रान्विते लग्ने चोपचयर्क्षगे स्थिरगृहे शीर्षोदये पापकैः । षट्या ६ । ३ । ११ योपगतैः शुभैर्व्यारि ६ मृति८। प्रान्त्य १२ स्थितैरासने यो भूपोप्युपविष्ट इष्टसहितः पृथ्वीं चिरं शास्ति सः । ” ॥ १२ ॥ १३ ॥ अथ शुभनाडिवेधफलमाह । क्रूर ग्रहगता इति ॥ १४ ॥ आधारक्षगत इति । सिंहासनेऽपि आसनादि संज्ञम् अन्यराजनक्षत्रं यदि शनिर्भुक्ते तदा दुर्भिक्षं रौरवं घोरमित्यादि फलं तद्राज्ये वदेत् ॥ १५ ॥
आसने च यदा सौरिर्युद्धे भंगप्रदो भवेत् ॥ अथवा व्याधिपीडा च घातो दुःखं च जायते ॥ १६ ॥ पट्टऋक्षे यदा सौरिः पट्टराज्ञी विनश्यति ॥ प्रियो वाथ कुमारो वा मंत्रिवर्गक्षयोपि वा ॥ ॥ १७ ॥ सिंहे सिंहासने वाथ यदा तिष्ठति सूर्यजः ॥ तदा मृत्युर्न संदेहो यदि शक्रसमो नृपः ॥ १८ ॥ शनिराह्नर्कमाहेया यदा चंद्रसंयुताः ॥ यस्यासनगता एते तदा तस्य क्षयंकराः ॥ १९ ॥ क्रूरयुक्तोऽतिवक्रस्थः क्रूरनाडीगतोपि वा ॥ आसने चंद्रयोगेन कालरूपी शनैश्वरः ॥ २० ॥ एवं शुभफलं दद्यादेवमंत्री न संशयः ॥ करोति विपुलं राज्यं यस्यासनगतो भवेत् ॥ २१ ॥ इति यामलीयस्वरोदये सिंहासनचक्रं समाप्तम् ॥ आसनक्षे यदा सौरिरिति ॥ १६ ॥ पट्टऋक्षेति । इदं फलं नरपतित्रयसिंहासने अन्यत्रस्थराज्ञः स्वनामनक्षत्रे पट्टसंज्ञे ज्ञेयम् ॥ १७ ॥ सिंहसिंहासने । अन्यभूपनाम सिंहासननक्षत्रत्रये सिंहे सिंहासने वा भवति तदेवं फलं तस्यापि ॥ १८ ॥ शनिराह्नर्कमाहेया इति अन्यस्यापि नक्षत्रमासनत्रये आसनसंज्ञं भवति । तदा तस्यापि स्थाननाशः ॥ १९ ॥ क्रूरयुक्तो अतिवक्रस्य इति ॥ २० ॥ अथ गुरोः फलमाह । एवं शुभफलं दद्यादिति शुक्रस्तु सर्वशत्रूणां भयकारी प्रियप्रदः । सुगमम् ॥ २१ ॥ इति जयलक्ष्म्यां टीकायां सिंहासनत्रयव्याख्या ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com