SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (८३) अथातः संप्रवक्ष्यामीति ॥१॥ सप्तविंशतिनक्षत्रेति ॥२॥ अश्विन्यायुत्तरे भागेति ॥ छत्रवत्सिंहासनमपि ज्ञातव्यम् ॥ ३ ॥ इतरेषु चेति ॥४॥ नाडिकापंचवेधेनेति ॥ सिंहासननक्षत्रेषु पृथक् पंचनाडिकावेधः । पंचनाडिकायाः पृथक् नामपंचकम् । सिंहासनं पंचसोपानकं चतुरस्रं निर्मीयते तत्र सोपानरेखायां द्वितयं नक्षत्रं द्विवयं नक्षत्रंन्यसेत् । वेधार्थं च । तथा च न्यासवेधः । तत्राधः सोपानस्य आधारसंज्ञा । तदुपरि आसनम् । तदुपरि पट्टसंज्ञम् । तदुपरि सिंहसोपानम् सर्वोपरि सिंहासनमिति । यत्रस्थो राजा सिंहवद्भवति । यद्यपि वेधोत्र नोक्तः तथापि न्यासोपदेशादुच्यते । “आधारनाडिकायां स्याद्वेधो दस्रभुजंगयोः। वेधः स्यादासने याम्यपुष्ययोश्च परस्परम् । कृत्तिकादित्ययोः पट्टे सिंहे रोहिणिरौद्रयोः । सिंहासने मृगशिरः स्थितं छत्रेऽश्वभूपतेः । आधारादिगतो वेधो मघादौ नवमे तथा । मूलादौ नवमे वेधो ज्ञातव्यः स्वरपारगैः ॥ ५ ॥ अथ आधारादिशनिगतफलमाह आधारादिफलमिति ॥ ६॥ नृपआधारनाडयः यदा पट्टेऽभिषचितः॥पराधीनगतं राज्यं कुरुते नात्र संशयः ॥७॥ आसनस्थेन ऋक्षेण नीतियुक्तो भवेन्नृपः॥ प्रधानपुरुषादेशात्प्रजाशांतिकरो भवेत् ॥ ८ ॥ पट्टऋक्षे यदा राजा चोपविष्टो यदासने ॥ पूर्वराज्यस्थितेस्तुल्यां चिरं पालयते महीम् ॥ ९ ॥ सिंहरूपी भवेद्राजा सिंहऋक्षासने स्थितः ॥ संग्रामस्य प्रियो नित्यमसाध्यो मंत्रिणां सदा ॥१०॥ ' नृप आधारेति । यद्दिने राज्याभिषेकः क्रियते। तद्दिने यदिआधारसंज्ञं नक्षत्रं भवति। तदा तस्मिन्नभिषिक्तो राजा पराधीनतयैव राज्यं भुंक्ते । कोर्थः। परसेवयैव ॥७॥अथासनफलमाह । आसनस्थेनेति । आसनस्थो भरणीपुष्ययोरन्यतमेन यदि अभिषेचितोराजा पट्टबंधाभिषेकः क्रियते तदा नीतिज्ञो भवति प्रधानपुरुषस्य शिष्टादेर्वाग्भिविमृश्यकारी भवति । शांतिवचनेन प्रियेण वचनेन प्रजां पालयति ॥८॥ अथ पट्टनक्षत्राभिषिक्तफलमाह । पट्टऋक्षेति ॥९॥ अथ सिंहासननक्षत्राभिषिक्तनक्षत्रफलमाह सिंहरूपीति ॥ १० ॥ सिंहासनगते ऋक्षे तेजस्वी भीषणाकृतिः॥ चलचित्तो भवेत् क्रोधी प्रजापीडाकरो नृपः ॥ ११ ॥ तत्कालेंदुगते ऋक्षे क्रूरनिर्वेधनाडिके ॥ शुभावस्था शुभे लग्ने संस्थाप्यो नृप आसने ॥ १२ ॥ ईदृशे च समायोगे उपविष्टो य आसने ॥ उच्छिद्य शत्रुसंघातमेकच्छत्रं करोति सः ॥ १३ ॥ क्रूरग्रहस्य नाडयां चेदुपविष्टो य आसने ॥ बंधनं भूमिनाशश्च तथा मृत्युश्च जायते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy