SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (८१) तेषामपि पूर्ववच्छत्रभंगं विनिर्दिशेतातहेतुमाहायोति यत्र यस्य च संभवः यन्नृपतित्रये अश्वपतिगजपतिनरपतित्रयच्छत्रोक्तनक्षत्रे यस्य संभवजन्म वा नामनक्षत्रं वा यस्मिन् छत्रत्रय स्थितं भवति तत्तत्संज्ञं तस्यापि च्छत्रं भवतीति यत्र यस्य च संभव इति कवेरभिप्रायः। तेन किम् । याद तन्नक्षत्रम् अश्वपतिच्छत्रे यदा "शनिराहुकुजादित्या यदा जीवेंदुसंयुताः” इत्यादिना तन्नक्षत्रं युक्तं भवति तदा तस्यापि च्छत्रभंगः स्यात् । अथवा तन्नक्षत्रं गजपतिच्छत्रे भवति । यदा च बुधचंद्रयुक्तक्रूरचतुष्टयैर्युक्तं भवति तदा तस्यापि च्छत्रभंगः। अथवा जन्मनामनक्षत्रं नरपतिच्छत्रे भवति । यदा च शुक्रदुचतुष्टयपापसंयुतं तन्नक्षत्रं तदा तस्यापि च्छत्रभंगः। एतावता अश्विन्यादिनक्षत्राणां राजानो गजपतिच्छत्रदेशस्था नरपतिच्छत्रदेशस्था वा भवंति तदा तत्फलं तेषामपि पारेणमति । एवं मघादिनक्षत्राणामधिपतयोश्वपतिच्छत्रदेशस्था भवंति । तदापि बुधचन्द्रयुतक्रूरफलं तेषामपि परिणमति । एवमन्योन्यं मूलादीनामेवं विकल्पयेत् । अत एव व्याख्यातं छत्रत्रयं सर्वेषां राज्ञां संज्ञाज्ञापनार्थम् ॥ १६ ॥ अथ शुभानां फलसामर्थ्य वदति । यथा दुष्टफला इति । सुगमम् ॥ १७ ॥ विशेषमाह । यथा दुष्टफल इति । सुगमम् ॥ १८॥ १९ ॥ २० ॥ अन्येषां भूभृतामृक्षं यत्रयत्र नृपत्रये ॥ चामरायभिधानेन तस्य यन्नाम जायते ॥२१॥ तत्तत्फलं तदा वाच्यमन्यदेशमहीपतेः ॥ नृपतित्रयनाम्नैव न वाच्यं छत्र फलम् ॥ २२॥ भूपनामःगो राहुः केतुर्वा यदि संस्थितः॥ छत्रभंगो भवेत्तस्य विषदानेन भूपतेः ॥ २३ ॥ मृगयां साहसं यात्रां दुष्टाश्वगजवाहनम् ॥ विग्रह च त्यजेद्राजा छत्रस्थैः क्रूरखेचरैः ॥२४॥ एव ज्ञात्वा यदा राजा करोति ग्रहशांतिकम् ॥ यदुक्तं यामले तंत्रे शांतिः स्यात्तेन भूपतेः ॥ २५ ॥ इति नरपतिजयचर्यायां स्वरोदये छत्रचक्राणि समाप्तानि ॥ अश्वपतिगजपतिनरपतिराज्यत्रये स्थितं भवति तस्य नक्षत्रस्य चामरायभिधानेन नाम जायते चामरादिसंज्ञा भवति ॥ २१ ॥ ततः किं कार्यमित्याह । तत्तदिति । यदि तन्नक्षत्रं चामरसंज्ञकम् अश्वपतिच्छत्रे अश्विनीगतः शनिः तदा अन्यभूखण्डस्थितस्य राज्ञो यदि नामभमश्विनीजन्मभं वा तदा तस्यापि राज्ये वायोश्चण्डता भवतीत्यागमविदः । अथवा भरणीगतःशनिः । कस्यापि च्छत्रदेशस्थराज्ञो भरणीनक्षत्रं तदा तद्राज्ये युद्धं समादिशेत् । अत एवोक्तम् “ नृपतित्रयनाम्नैव न वाच्यं छत्रजं फलम् " ॥२२॥ अथ पापाक्रांतनक्षत्रपृथक्फलमाह । भूपनामसंग इति ॥ यस्य राज्ञो जन्मनक्षत्रं छत्र द Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy