SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ (८०) नरपति जयचर्या - त्पितरि यो राजा युवराज इति स्मृतः” रज्जुसंज्ञे नवमनक्षत्रे शनौ बंधन भवति । स्वचक्रेण परचक्रेण वा । छत्रत्रयादिनक्षत्रे शनिस्थिते यत्फलमुक्तं तन्नक्षत्रं सर्वतोभद्रे यदि विद्धं भवति तदा अवश्यं भवति । तत्रापि निरूपणीयमित्युपदेशः ॥ ११ ॥ अथ शनेः फलाफलदाने विशेषमाह । सौम्ययुक्तेति । यदा छत्रत्रये सौरिः “ छत्रे दण्डे पतग्रहे” इत्यादिना छत्रभङ्गफलम् । चामरे चण्डता वायोरित्यादि शनिस्थनवनक्षत्रफलमुक्तम्। तेष्वर्थेषु यदि शुभग्रहयुक्तो भवति गुरुशुक्राभ्यां युक्तः। अतिचारस्थोऽतिशीघ्रगत्या स्वकालपरिमाणराशिभोगमतिक्रम्य राश्यन्तरं गन्तुकाम एवंविशिष्टः शनिरुक्तफलकर्ता न भवति । ईदृशे शनौ चामराभिधे नक्षत्रे तद्राज्यचंडे वायुर्न वहति न अनावृष्टिः प्रजापीडा च न । कलशस्थे शनौ युद्धमुक्तमित्यादावपि उक्तफलदाता न भवति । स एव वक्री तदा चामरादिफलम् अतिक्रूरं भवति । अथवा क्रूरसंयुक्तः रविभौमराहुकेतुभिर्युक्तस्तदाप्युक्त फलदः। बुधयुक्तः पापफलद एव । यतः क्रूरयुक्तो बुधः क्रूर इति ॥१२॥ अथ च्छत्रत्रयपि ग्रहस्थित्या विशेष फलमाह । शनिराह्निति । अश्वपतिच्छत्रे पापा जीवेंदुसंयुताः छत्रभंगं कुर्युः । जीवेंदुभ्यां विना अश्वपतिच्छत्रं न विनश्यति । किन्तूत्तरस्यां ये मंडलाधीशा भवंति तेषां यद्यच्चमराभिधं नक्षत्रं अश्वपतिच्छत्रे स्थितं विशेषोक्तनक्षत्रफलम् तत्तद्देशे भवति ॥ १३ ॥ अथ पापचतुष्टयफलं गजपतिच्छत्रे बुधचन्द्राभ्यां समर्पयति ॥ क्रूरग्रहेति ॥ यदा च बुधचन्द्राभ्यां युतं क्रूरचतुष्टयम् । “पूर्वच्छ्त्रविनाशाय कथितं पूर्वसूरिभिः " क्रम लिखनेनापि गजपतिच्छत्रं पूर्वस्यां दिशि निर्णीतम् ॥ १४ ॥ एवं पापचतुष्कमिति । आदावपि कविना प्रोक्तम् । “अश्विन्याद्यं मघाद्यं च मूलाद्यं च क्रमेण च । उत्तरे पूर्वदक्षे चेति । अत्रोत्तराधीशपूर्वाधीशदक्षिणाधीशाः अश्विन्यादित्रिविभागेनैवोक्ताः ॥ १५ ॥ एवमन्येषु राज्येषु यत्र यस्य च संभवः ॥ उक्तग्रहसमायोगाच्छत्रभंगं विनिर्दिशेत् ॥ १६ ॥ यथा दुष्टफलाः क्रूरास्तथा सौम्याः शुभप्रदाः ॥ क्रूरयुक्तो बुधः क्रूरश्चंद्रः शुभयुतः शुभः ॥ १७ ॥ यथा दुष्टफलः सौरिस्तथा सौम्यफलो गुरुः ॥ भौमज्ञौ गुरुराहू च रविचंद्रौ फले समौ ॥ १८ ॥ यथा हानिकराः क्रूरास्तथा सौम्याः शुभंकराः॥ क्रूरयुक्तो भवेत् क्रूरश्चंद्रः सौम्ययुतः शुभः ॥ १९ ॥ सौम्यकुरा यदा छत्रे अष्टावेकत्र संस्थिताः ॥ छत्रभंगो भवेत्तस्य परचक्रागमेन च ॥ २० ॥ अथान्यत्रस्थानामपि राज्ञां विशेषमाह । एवमन्येष्विति ॥ एवमिति पूर्ववत् छत्रभंग विनिर्दिशेत् । अन्येषु राज्येषु यत्र कुत्रचित् भूखंडमात्रस्थराज्यं भुज्यमानेषु राजसु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy