________________
जयलक्ष्मीटीकासमेता।
(७९) चामरं कलशं वीणा छत्रं दंडं पतद्रहः॥ आसनं कीलकं रज्जुनव भेदाः प्रकीर्तिताः॥५॥ छत्रत्रये स्थितः सौरिभंगं तस्य विनिदिशेत् ॥ फलं च चामरादीनां प्रत्येकं च वदाम्यहम् ॥ ६ ॥ चामरे चंडता वायोरनावृष्टिश्च जायते ॥ दुर्भिक्षं च भवेडोरं प्रजापीडा न संशयः॥७॥ कलशस्थे भवेद्युद्धं रणे रोगे महद्भयम् ॥ घातपातादिकं सर्व जायते नात्र संशयः ॥ ८ ॥ वीणास्थेनार्कपुत्रेण पट्टराज्ञी विनश्यति ॥ चलचित्तो भवेद्राजा भयभीता च मेदिनी ॥ ९॥ यदा ऋक्षत्रये सौरिश्छत्रे दंडे पतद्रहे ॥ तदा तस्य भवेद्भगश्छत्रस्यापि न संशयः ॥१०॥
अथ छत्रत्रयस्य नवनक्षत्राणां संज्ञा आह । चामरं कलशेति । तत्राश्वपतिच्छत्रेऽश्विनीचामरसंज्ञिता । भरणी कलशसंज्ञिता । कृत्तिका वीणा । रोहिणी छत्रम् । मृगशिरो दंडसंज्ञः । आर्द्रा पतद्ग्रहः । पुनर्वसुरासनम् । पुष्यः कीलकम् । आश्लेषा रज्जुः । नवनक्षत्राणामेवं नव भेदाः । तथा मघादीनां नवानां क्रमेण चामरादिनव भेदाः। नरपतिच्छत्रे मूलानां च नवानां चामरादिनवभेदा ज्ञातव्याः ॥५॥ तत्र शनिभौमगतानामेषां पृथक् पृथक् फलमाह । छत्रत्रये स्थितेति । छत्रत्रये छत्रे दंडे पतद्ग्रहे नक्षत्रत्रये यदा सौरिविचरति तदा तस्य छत्रभंगमादिशेत् ॥ ६॥ अपरेषां फलं कविरेव वदति । शनिचारवशात् । चामरेति ॥७॥ कलशस्थेति ॥ ८ ॥ वीणास्थति ॥ ९॥ यदा ऋक्षत्रयति ॥१०॥
आसनस्य भवेन्नाश आसनस्थे शनैश्चरे ॥ युवराजक्षयः कीले बंधनं रज्जुसंस्थिते ॥ ११ ॥ सौम्ययुक्तोतिचारस्थः शनिरुक्तफलो नहि ॥ वक्रगः क्रूरसंयुक्तः शनिरुक्तफलप्रदः॥ १२ ॥ शनिराहुकुजादित्या यदा जीवेंदुसंयुताः ॥ उत्तराधीशराज्ञां च निश्चितं छत्रभंगदाः ॥ १३ ॥ क्रूरग्रहचतुष्कं च बुधचंद्रेण संयुतम् ॥ पूर्वच्छत्रविनाशाय कथितं पूर्वसरिभिः॥ १४ ॥ एवं पापचतुष्कं च यदा शुक्रेन्दुसंयुतम् ॥ दक्षिणाधिपतेश्छत्रविनाशो भाषितो बुधैः ॥ १५॥
आसनस्यति । आसनस्थे आसनाख्ये छत्रस्य सप्तमनक्षत्रे आसनस्य नाशोभवति । कार्थः पृथिवीं त्यजेत्।परचक्रादिभिःकीले कीलाख्यनक्षत्रस्थेशनौ युवराजनाशः। “जीव
MARATHI
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com