________________
(७८)
नरपतिजयचर्यास्थिताः । अयं विभागो यामलादिषु सर्वेषु ॥२॥ अथ त्रयाणां चतुर्दिक्षु त्रिभाग एव तानाह । प्रतीचीमध्यरेखेति। अत्रोदाहरणे भूविभागः। तथा च राजविजये। “अश्वाध्यक्षो गजाध्यक्षोनराध्यक्षः क्रमेण च । एषां छत्रविधानेन ज्ञातव्यं नृपतित्रयम्" अत्रार्थे विजयकल्पलतायांचक्रपाणिः। “छत्रेतुरंगोत्तरदिपतेश्च दस्रान्नवोडूनि भवंति चक्रोपित्र्याद्गजः प्राच्यधिपस्य रक्षोधिष्ण्यान्मनुष्यांतकदिक्पतेश्चा"अतोश्वपतिगजपतिनरपतयो राजानः प्रस्थिताः । इदं छत्रत्रयं संज्ञामात्रम् । अथ प्रतीचीमध्यरेखा कियदवधिभूता कं देशं प्राप्य निवृत्ता । तत्र कूर्मचक्रे देशविभागः । “अयोध्या मिथिला चंपा कोशांबी कौशिकी तथा । अहिच्छत्रं गया विध्यमंतर्वेदिश्च मेखला। कान्यकुब्जं प्रयागश्च मध्यदेशो विनश्यति ।" एषु देशेषु यत्र कौशिकी तदंतरेखाप्रतीची स्थिता तद्रेखोत्तरभागे ईशानांतं हयाधिपः । कौशिकीतः आग्नेयांतं मध्यरेखातो दक्षिणेआग्नेयांतं नराधीशः । तन्मध्ये कौशिक्या ईशानाग्नेयांतराले मघादिच्छत्रं तद्गजपतिच्छत्रम् । तन्मध्ये च गजाधिप इति । अथ प्रतीचीमध्यरेखाया उतरे ईशानांतम् । सपश्चिमार्द्धवायव्योत्तरेशानांतं बहवो राजानः । तथा च "पश्चिमे शककोंकणम्लेच्छहैहयशातृकाः । वायव्यां दिशि मांडव्यतुषारकविलोचनाः । स्त्रीराज्याश्मकदीर्घस्य मूलिकाश्चर्मरंजिकाः । उत्तरस्यां तुषाराद्रिहणयामुनकैकयाः। गांधारमयौधेयार्जनायनवसातयः ।ऐशान्यां कीरकाश्मीरं गंजनं खरसानकम् । खसैकपदकौलिंद नंदासुरकटंगणाः। "एषां योधिपतिः सोश्वपतिः तस्य च्छत्रमश्वपतिच्छत्रम् । अथ पश्चिमार्द्धनैर्ऋत्यदक्षिणाग्नेयांतं च राजानः तत्र नैर्ऋत्ये नैर्ऋत्यां दिशि कांबोजद्रविडा वनिता मताः। “सुराष्ट्रयवनाः सति सरैवतकघर्घराः" । अथ दक्षिणस्याम् “दिश्यंतकस्य रजनीचरराजधानी श्रीपर्वतो मलयदर्दुरको महेंद्रः । कर्नाटकोल्लगिरिकेरलरिष्यमूका आभीरचोलवनवासिमहाशयाश्च"। अथाग्नेय्याम् । “ज्ञेया ककुब्भ्याज्यभुजः कलिंगवंगोपवंगांधविदर्भवत्साः। सकोशलोदुलिकडुपालविंध्यालालंजिकपाचयुक्ताः(?)।" आग्नेयांतमेते देशाः। एषां योधिपतिः स नरपतिः । तस्य च्छत्रम् नरपतिच्छत्रम् । पूर्वदक्षिणोप्यत्र वदति । तथाग्नेयेशांतराले । प्रांच्या कौशिकी नदी तत्पादिशि "सगौडहस्तिबंधश्च पंचराष्ट्रं च कामरू । सूतरैवचनं वासा पूर्वस्यां दिशि संस्थिताः ।” प्रागजोतिषालौहित्यक्षीरोदसमुद्रसुरापादाः । उदयगिरिभद्राश्वगौडपौंड्रोत्कलकाशिनेकलांबष्ठाः । एकपदताशुलिप्तांककोमलकावर्दमानाश्चेति । एषां योधिपतिः स गजाधिपतिः । अत्र केपि वंदति । कविना तु असंमुग्धेनैव उत्तरस्यामीशानांतं हयाधिपः दक्षिणास्यामाग्नेयांतं नराधिपः । तन्मध्ये तु गजाधिप इति । अत एवास्माभिव्याख्यातम् । यत्र कुत्रापि देशे संस्थितानां राज्ञां नामनक्षत्रेण तत्तत्संज्ञनक्षत्रज्ञापनार्थ छत्रत्रयसंज्ञा कृता ॥३॥ तथा चाह । अन्येषां भूभृतामिति । अन्येषां यत्र कुत्रचित्स्थितानां राज्ञां नक्षत्रं यस्मिन्कस्मिन्नपि छत्रे स्थितं भवति तच्छत्रसंज्ञया तस्यापि छत्रं भवति ॥ ४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com